________________
पञ्चमः प्रस्तावः ।
इतः सुवर्णनगरखामिनः शङ्खभूपतेः ।
पृथ्वी देवोभवा पृथ्वीसेना नाम्नी सुकन्यका ॥ ५६ ॥ भूपस्याभयघोषस्य समायाता स्वयंवरा |
परिणीताऽतिहर्षेण तेनासौ मृगलोचना ॥ ५७ ॥
२५३
अन्यदाऽथ वसन्तर्तों सुपुष्पवनबन्धुरे ।
ययौ क्रीडितुमुद्याने राजा राज्ञीशतान्वितः ॥ ५८ ॥ भ्रमन्त्या तत्र तत्पत्ना पृथ्वीसेनाभिधानया । अदर्शि दान्तदमनाभिधानो मुनिपुङ्गवः ॥ ५८ ॥ तत्पार्श्वे धर्ममाकर्ण्य तया च प्रतिबुद्धया । अनुज्ञाप्य महीपालं प्रव्रज्यां प्रत्यपद्यत ॥ ६० ॥ राजाऽप्युद्यानलक्ष्मी तामनुभूय ययौ पुरम् । प्राप्तश्च तद्गृहेऽन्येद्युश्छद्मस्थोऽनन्ततीर्थक्कृत् ॥ ६१ ॥ प्राशुकैरन्नपानैश्च स तेन प्रतिलाभितः । चक्रिरे पञ्च दिव्यानि तद्गृहे च दिवौकसः ॥ ६२ ॥ उत्पन्नकेवलस्यास्य समीपे स महीपतिः 1
तनयाभ्यां समं ताभ्यां प्रव्रज्यां प्रतिपन्नवान् ॥ ६३ ॥ विंशतिस्थानके: तीर्थकरकर्म निबध्य सः ।
कृत्वा कालं ससुतोऽप्यच्युतकल्पे सुरोऽभवत् ॥ ६४ ॥ ततथुप्रतोऽभयघोषजीवः स्वस्याऽऽयुषः क्षये ।
राजा घनरथो जज्ञे हेमाङ्गदनृपाऽऽत्मज: ॥ ६५ ॥ जीवौ जयविजययोः सञ्जातो वां दिवथुती । इति तेनानगारेण तयोस्तात ! निवेदितम् ॥ ६६ ॥