Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
चतुर्थः प्रस्तावः ।
२३१
संसारवासनिविस्म: सुधर्ममुनिसन्निधौ। जग्राह स सुधीर्दीक्षां शिक्षां च द्विविधामपि ॥ ४ ॥ स पञ्च समिती: सम्यक् पालयामास यत्नतः । गुप्ती चापालयत् कायगुप्तो किं तु न निश्चलः ॥ ५० ॥ 'कायोत्सर्गे स्थितो दंशमशकोपद्रवे सति । पारयामास तं शीघ्रमसंपूर्णेऽवधावपि ॥ ५१ ॥ सुधर्मसाधुनाऽभाणि किमावश्यकखण्डनम् ? । प्रकरोषि यतो दोषो व्रतभङ्गे भवेद् महान् ॥ ५२ ॥ ततस्तद्भयभीतोऽसावसहिष्णुरिमामपि । गुप्तिं निर्वाहयामास वैयावृत्त्यं चकार च ॥ ५३ ॥ मृत्वा समाधिना सोऽन्ते सोधर्मे त्रिदशोऽभवत् । जने तव सुत: शेष्ठिन् ! तत: च्युत्वाऽऽयुषः क्षये ॥ ५४ ॥ सप्त प्रवचनमातृयत् सुखेनैव पालिताः । तदनेन प्रियाः सप्त परिणोताः सुखेन हि ॥ ५५ ॥ कष्टेन पालिका यत् प्रियाऽप्येवमभूत् ततः । अप्रमादो विधातव्यो धर्मकर्मणि सर्वथा ॥ ५६ ॥ तच्छ्रुत्वा जातसंवेगोऽग्रहीद दीक्षां पुरन्दरः । जग्राह श्रावकत्वं च पुण्यसारो विवेकवान् ॥ ५७ ॥
-
-
-
(१) घ ङ कायोत्सर्गस्थितो। (२) द भोः।
(२) ड मोऽपि । (५) ङ, च श्रेयपि।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108