Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२३४
श्रीशान्तिनाथचरित्रे
औत्पत्तिको वैनयिको कार्मिको पारिणामिको। चतुर्विधा भवेद् बुद्धिः पञ्चमी नोपलभ्यते ॥ ७७ ॥ अदृष्टाश्रुतपूर्वे या वस्तुन्युत्पद्यते क्षणात् । बुद्धिरीत्यत्तिको नाम सा बुधैः परिकीर्तिता ॥ ७८ ॥ भारते रोहको नाम शिलाप्रभृतिवस्तुषु । दृष्टो निदर्शनं तस्यां तत्कथा श्रूयतामिति ॥ ७ ॥ उज्जयिन्यां महापुर्यामरिकेसरिनामकः । बुद्धिविक्रमसंपन्नो बभूव पृथिवीपतिः ॥ ८ ॥ तस्याः पुर्याः समासन्ने महत्या शिलयाऽशिते । नटग्रामेऽभवद् रङ्गशूरो नाम्रा कुशीलवः ॥ ८१ ॥ अतिमात्र कलापात्रं बुद्धिनिर्जितवाक्पतिः । बालोऽप्यबालभावोऽभूत् तत्पुत्रो रोहकाह्वयः ॥ ८२ ॥ तन्मातरि विपन्नायां रङ्गशूरस्य तस्य तु । बभूव रुक्मिणी नानी प्रेयसी रूपशालिनी ॥ ८३ ॥ सा यौवनमदोन्मत्ता भर्तृगौरवगविता । रोहकस्याङ्गसंस्कारं न चकार तथाविधम् ॥ ८४ ॥ सोऽवदद् कुपितो यत् त्वं शुश्रूषां न करोषि मे। भविष्यति ततोऽवश्यं हे मात: ! ते न सुन्दरम् ॥ ८५ ॥
(३) क ज ट द -मियम ।
(१) ड कार्मिका परिणामिका । (२) ख घ ङ ज मतिः ।

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108