Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
चतुर्थः प्रस्तावः ।
चक्रो वापितः पुम्भिस्तदाऽऽगत्य नियोजितैः । ततञ्च सपरीवारस्तं नन्तुं 'द्राग् ययावसौ ॥ ६७ ॥ प्रदक्षिणणत्रयपूर्वं प्रणम्य परमेश्वरम् । निषसाद यथास्थानं शुश्रूषुर्धर्मदेशनाम् ॥ ६८ ॥ अत्रान्तरे सुतस्तस्य सहस्राऽऽयुधनामकः । नमस्कृत्य जिनेन्द्रं तं पप्रच्छेवं कृताञ्जलिः ॥ ६६ भगवन् ! पवनवेगादोनां पूर्वापरं भवाः । कथं तार्तन विज्ञाता ममैतत् कौतुकं महत् ? ॥ ७० ॥
भगवानप्यथाऽवादोदवधिज्ञानचक्षुषा ।
भवस्वरूपं विज्ञातं तेषां वज्रायुधेन भोः ! ॥ ७१ ॥ पुनः पप्रच्छ तद् ज्ञानं कतिभेदं भवत्यदः । जिनोऽवोचत् पञ्चधा तत् प्रसिद्धं ह्यस्मदागमे ॥ ७२ ॥ मतिश्रुतावधिसंज्ञं तत्र ज्ञानत्रयं भवेत् । तुर्य मन:पर्ययं च पञ्चमं केवलाऽभिधम् ॥ ७३ ॥ बुद्धि: स्मृतिश्च प्रज्ञा च मति: पर्यायवाचकाः । धीमद्भिः पुनरेतासां पृथक् भेदाः प्रकीर्तिताः ॥ ७४ ॥ भविष्यत्कालविषया मतिस्तावत् प्रकीर्तिता । बुद्धिश्च वर्तमाने स्यादतीते च स्मृतिर्भवेद् ॥ ७५ ॥ कालत्रये च विज्ञेया प्रज्ञा सा च चतुर्विधा । क्षयं गतैर्भवे जन्तोर्मत्यावरणकर्मभिः ॥ ७६ ॥
(१) घ ठ द -प्रययात्र- |
२३३
(३) द क्षयं गते भवेद् जन्तोर्म त्यावर णकर्मणि ।
३०
(२) ङ स |

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108