Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 54
________________ २४० श्रीशान्तिनाथचरित्रे समीप भूपतिः स्वस्याकारयामास रोहकम् । व्यवस्थयाऽनयाऽन्येदारन्योऽन्यस्य विरुद्धया ॥ ३८ ॥ नागम्यं मलिनाङ्गेन कार्य स्नानं न च त्वया । यानाऽऽरूढेन चागम्यं पदभ्यां नाऽस्मृशता भुवम् ॥ ३८ ॥ नोत्पथेन न मार्गेण न रात्री न च वासरे । न कृष्णे नोज्ज्वले पक्षे न च्छायायां न चाऽऽतपे ॥ ४० ॥ नोपदापाणिना नैव रिक्तहस्तेन वा त्वया। अागन्तव्यं त्वयाऽभ्यामे शेमुषोशालिना ध्रुवम् ॥ ४१ ॥ ततश्चैडकिकाऽऽरूढः स्मृशन् पद्भ्यां धरातलम् । प्रक्षालिताङ्गस्तोयेन सन्ध्याकाले कुहदिने ॥ ४२ ॥ धृतचालनकः शौर्षे चक्ररेखान्तरालगः । मृदुपायन'पाणिश्च स ययौ नृपपर्षदि ॥ ४३ ॥ कृत्वा प्रणामं भूपस्य समीपे निषसाद च । ढोकयामास चामुष्य प्राभृतं मृत्तिकामयम् ॥ ४४ ॥ किमेतदिति राज्ञोते कथयित्वाऽऽत्मन: कथाम् ? । सोऽवदद् देव ! गुर्वीयं जगन्मातेव मृत्तिका ॥ ४५ ॥ ततश्च स्वाऽऽगतप्रश्नद्रव्यदानाऽऽदिना नृपः । संमान्यैनं सभामध्ये प्रशशंस सविस्मयः ॥ ४६ ॥ अहो ! अस्य महापुंसो विलोक्य मतिवैभवम् । वयं मन्यामहे रूढं सत्यमेतत् सुभाषितम् ॥ ४७ ॥ (१) ख घ ज -पाणिभ्यां ।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108