Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 55
________________ चतुर्थः प्रस्तावः । २४१ वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ ४८ ॥ अथाऽङ्गरक्षकले तं निवेश्य निशि भूपतिः । सुष्वाप शयने तस्मिन् रोहकोऽपि महामतिः ॥ ४८ ॥ यामिन्याः प्रथमे याम जातनिद्राक्षयोऽथ सः । विबोध्य रोहकं स्माऽऽह सुप्तो जागर्ति वा भवान् ? ॥ ५० ॥ सोऽवदद् नैव सुप्तोऽस्मि देव ! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोल्येवंविधा इति ? ॥ ५१ ॥ भूपपृष्टेन तेनैव कृतस्तनिर्णयो यथा । वातप्राबल्यतस्तासां जायन्ते तास्तथाविधाः ॥ ५२ ॥ द्वितीयमहरेऽप्येवं पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा गुरुः ॥ ५३ ॥ तेनैव निर्णयश्च के हावप्येतो समाविति । तृतीयप्रहरे खाडिहलादेहस्य चिन्तनम् ॥ ५४ ॥ निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । यावती खेतता तावत् कृष्णत्वमपि तत्तनो ॥ ५५ ॥ चतुर्थप्रहरे विद्धः कण्टकेन महीभुजा । जगाद रोहको देव ! चिन्ता त्वत्तातजा मम ॥ ५६ ॥ (१) ठ -नां दृश्यते । (२) ख घन पत्राणां। (२) ङ निणीय तं।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108