Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
अर्हम् अथ पञ्चमः प्रस्तावः ।
इतोऽस्य जम्बूद्दीपस्य प्राग्विदेहस्य 'मध्यगे । विजये पुष्कलावत्यामस्ति पूः पुण्डरी किणी ॥ १ ॥ नोतिकीर्तिजयश्रीणां स्त्रीणां सङ्घतमन्दिरम् । अभूत् तीर्थङ्करस्तत्र राजा घनरथाभिधः ॥ २ ॥ रूपलावण्यसंयुक्ते तस्याऽभूतामुभे प्रिये । आद्या प्रीतिमतोनानी हितीया च मनोहरी ॥ ३ ॥ वज्रायुधस्य जीवोऽथैक त्रिंशत्सागरस्थितेः । तस्मात् सर्वोत्तमवेयकादायुःक्षये च्युतः ॥ ४ ॥ तत्पर्वप्रेयसीकुक्षिशक्ती मुक्तामणिप्रभः । समुत्येदे सुतत्वेन मेघस्वप्नोपसूचित: ॥ ५ ॥ (युग्मम् ) सहस्रायुधजीवोऽथ ततश्चात्वोदरेऽभवत् । राज्ञः पत्नयाः द्वितीयस्याः सुरथस्वप्नशंसितः ॥ ६ ॥ पूर्ण कालेऽथ ते देव्यौ प्रसूते शुभलक्षणौ । मेघरयदृढरथनामानौ वरनन्दनौ ॥ ७ ॥ अतिक्रान्तशिशुत्वौ तौ कलाचार्यस्य सन्निधौ। सुविनीतौ महाप्राजी पेठतुः सत्कला इति ॥ ८ ॥
(१) ख घज भूषणे ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108