Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
चतुर्थः प्रस्तावः।
२४५
सप्तस्वरसमायुक्तं ग्रामत्रयपविनितम् । तिलोत्तमाऽपि सपरीवारा गीतं व्यधाट् वरम् ॥ ८७ ॥ विधायैवंविधां भक्तिं मुनीन्द्रं तं प्रणम्य च । रम्भातिलोत्तमे देयो जग्मतुः स्थानमात्मनः ॥ ८८ ॥ वार्षिकों पारयित्वा तां प्रतिमामतिदुष्कराम् । विजहार महीपौठे वज्रायुधमहामुनिः ॥ ८८ ॥ क्षेमशरे गत मोक्षं गणभृत् पिहिताश्रवः । आययो नगरेऽन्येयुः सहस्रायुधभूपतिः ॥ ८० ॥ धर्म तदत्तिके श्रुत्वा प्रतिबद्धः सकोऽपि हि । राज्ये शतबलं पुत्रं निवेश्य व्रतमाददे ॥ ८१ ॥ गीतार्थो मिलितः सोऽथ तातसाधोस्ततश्च तो। भूम्यां विहरत: स्मोभी कुर्वन्तो विविधं तपः ॥ ८२ ॥ ईषत् प्राग्भारसंज्ञेऽथ समारुह्य महीधर । संतस्थतुः कृतप्रायौ पादपोपगमेन तौ ॥ ८३ ॥ त्यत्वा देहमिदं मलाञ्चितमुभौ तौ देवलोकोत्तरं संप्राप्तौ नवमं गतावमुमथ ग्रैवेयकाग्रेयकम् । इत्थं शान्तिजिनेखरस्य चरिते तस्यैव वर्याष्टमः प्रोतोऽयं मयका भव: सनवमः सङ्घस्य कुर्याच्छिवम् ॥७८४॥
इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरित
अष्टमनवमभववर्णनो नाम चतुर्थः प्रस्तावः ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108