Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 53
________________ चतुर्थः प्रस्तावः । २३८ अन्यदा च जरदस्ती प्रेषितस्तत्र भूभुजा । कथितं च यथा यत्नात् पाल्योऽयं मम वारण: ॥ २८ ॥ संस्थितस्यास्य मे वार्ता कथनीया यथा तथा । मृत इत्यक्षरहन्दं नोचायं तु पुरो मम ॥ २८ ॥ जापितो रोहणेति मृते तस्मिन् महीपतिः । यद् देव ! न चरत्यद्य करी पिबति वा न च ॥ ३० ॥ चक्रे नोच्छासनिःखासौ राज्ञोचे तर्हि किं मृतः ? । सोऽवदद् वेद्मि नैवाहं देवो जानाति कारणम् ॥ ३१ ॥ राज्ञा पुनः समादिष्टं ग्रामलोकस्य तस्य तु । यद् भोः ! स्वादुजलाऽऽपूर्णः स्वकूपः प्रेष्यतामिह ॥ ३२ ॥ प्रत्यूचे रोहकोऽप्येवं पुरस्था काऽपि कूपिका । देवाऽऽदौ प्रेष्यतामत्र यतः सार्ड तयेत्ययम् ॥ ३३ ॥ हृष्टो राजाऽप्यभाषिष्ट युक्तमेतेन जल्पितम् ।। कार्यस्याऽघटमानस्याऽघटमानमिहोत्तरम् ॥ ३४ ॥ प्रदत्ताऽऽना पुना राना यदुदीच्यां वनं दिशि । दक्षिणस्यां दिशि ग्रामात् तत् कथं क्रियते वद ? ॥ ३५ ॥ रोहकोऽप्यवदद् ग्रामनिवेश: क्रियतेऽन्यतः । तेनैव विधिना ग्रामाद् भवेद् दक्षिणतो वनम् ॥ ३६ ॥ राजाऽऽदेशात् स चान्येद्यु: पायसं पावकं विना । पपाचावकरस्यान्तः स्थालों विन्यस्य यत्नतः ॥ ३७॥ (१) ख घ -मिति । ज मितः ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108