Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 46
________________ २३२ श्रीशान्तिनाथचरित्रे ततः पुत्त्रेषु जातेषु पुण्यसारोऽपि वाईके । प्रतिपद्य परिव्रज्यां मृत्वा सुगतिभागभूत् ॥ ५८ ॥ ॥ इति पुण्यसारकथानकं समाप्तम् ॥ श्रुत्वेमां पुण्य सारस्य सत्कथां 'विमलाऽऽशयः । जग्राह दीक्षां कनकशक्तिस्त्यक्त्वा नृपश्रियम् ॥ ५८ ॥ समीप विमलमत्या आर्यायास्ते च तत्प्रिये । दीक्षां ग्टहीत्वा संजाते सुतपःसंयमोद्यते ॥ ६० ॥ 'विहरन् नगनगरे सिद्धिपर्वतनामके । गत्वा शिलोच्चये तस्थौ प्रतिमामकरात्रिकीम् ॥ ६१ ॥ तत्पूर्वमत्सरी तत्र हिमचूलाभिधः सुरः । तस्योपसर्गान् विदधे निराचक्रे स खेचरैः ॥ ६२ ॥ प्रभात पारयित्वा तां स आगाट रत्नसञ्चयाम् । तत्र सूरि निपाताख्योद्याने तां प्रतिमां व्यधात् ॥ ६३ ॥ शुक्लध्यानजुषः तस्य घातिकर्मचतुष्टये।। प्रक्षीण केवलज्ञानमुत्पेदे विश्वदीपकम् ॥ ६४ ॥ विदधे महिमा तस्य देवविद्याधराऽसुरैः । वज्रायुधचक्रिणा च मानवैरपरैरपि ॥ ६५ ॥ आगत्य समवासार्षीत् पुरि तस्यामथाऽन्यदा । पूर्वोत्तरदिग्विभाग क्षेमङ्गरजिनेश्वरः ॥ ६६ ॥ (१) ख डज विगताऽऽशयः। छठ विरताशयः । (२) ठ नगनगरैः। द विहरवन गारोऽसौ सिद्धपर्वतमस्त के । (३) ङ -विमानाख्यो-।

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108