Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२३०
श्रीशान्तिनाथचरित्रे
वधूर्वी 'वन्दत इति भर्त्रा निर्दिश्यमानया । नमश्चक्रेऽनया राजा श्वश्रूश्वशुरको तथा ॥ ३८ ॥ किमेतदिति पृष्टश्व पुण्यसारः कथां निजाम् । कथयामास भूपस्यातिविस्मयविधायिनीम् ॥ ४० ॥ विज्ञप्तो रत्नसारेण राजैवं येन मे सुता ।
उदूढा सोऽभवद् नारी तदस्या देव ! का गतिः ? ॥ ४१ ॥ सोऽवादोदत्र प्रष्टव्यं किमु भोः साऽपि गेहिनी ? | भवतात् पुण्यसारस्योदूढा तग्रियया यतः ॥ ४२ ॥ सा रत्नसुन्दरो ताश्च वल्लभा वलभीपुरात् । आययुः पुण्यसारस्य मन्दिरं पुण्ययोगतः ॥ ४३ ॥ एवमष्टौ कलत्राणि कृतचित्राणि शृखताम् । पूर्वं विहितपुण्यस्य पुण्यसारस्य जज्ञिरे ॥ ४४ ॥ धर्मदेशनया भव्यप्राणिनः प्रतिबोधयन् ।
ज्ञाननाराभिधाऽऽचार्यस्तत्रान्येद्युः समाययौ ॥ ४५ ॥ अथ तद्दन्दनाहेतोर्भक्तिभावितमानसः ।
ययौ पुरन्दरः श्रेष्ठो पुण्यसारसमन्वितः ॥ ४६ ॥ 'मोऽथ नत्वा तमाचार्य पप्रच्छेति कृताञ्जलिः ।
प्रभो ! मत्सूनुना पूर्वभवे किं सुकृतं कृतम् ? ॥ ४७ ॥ शशंस सोऽवधिज्ञानी पुरे नीतिपुराभिधे ।
बभूव कश्चिदुच्छिन्नसन्तानः कुलपुत्रकः ॥ ४८ ॥
(१) द विन्दत इति । (२) ध ज ट मत्सुता ।
(३) ङ कलत्राणां । (४) द असौ ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108