Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
चतुर्थः प्रस्तावः।
२१७
यूयमत्र पुरे मुख्या याचितारः सुतां मम । महिता बन्धुभिश्चेभिस्तद् वाच्यं किमत: परम् ? ॥ ८ ॥ पितुः पाखें स्थिता साऽथ कन्यका 'सहसाऽवदत् । ताताहं पुण्यसारस्य भविष्यामि न गेहिनी ॥ ८ ॥ तस्यास्तद् वचनं श्रुत्वा दध्यावेवं पुरन्दरः । अहो ! मे तनयस्यास्यां व्यर्थः पाणिग्रहाग्रहः ॥ १० ॥ यस्या एवंविधा वाणी कर्कशा शैशवेऽप्यहो ।। भाविनी यौवनोन्मत्ता सा भर्तुः सुखदा कथम् ? ॥ ११ ॥ उवाच रत्नसारस्तु मुग्धेयं तनया मम । वाच्यावायं न जानाति तदस्या: फल्गु जल्पितम् ॥ १२ ॥ तथाऽहं बोधयिष्यामि श्रेष्ठिन् ! ते तनयो यथा । परिणष्यत्यमुं चैव मया दत्ता त्वसौ ध्रुवम् ॥ १३ ॥ ततः पुरन्दरः श्रेष्ठी ग्रहमागत्य तत्कथाम् । कथयित्वाऽवदत् पुत्रं वत्स ! सा तव नोचिता ॥ १४ ॥
यत:
कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां ग्रहिणों परिवर्जयेत् ॥ १५ ॥ प्रत्यूचे पुण्यसारस्तु अमुं परिणयामि चेत् । भवामि तदहं सत्यप्रतिजस्तात ! नान्यथा ॥ १६ ॥
(१) ङ चाबीदिदम् ।
नाहं परिणयिष्यामि त्वेनं च श्रेष्ठि नः सुतम् ॥ श्रुत्वा त्वेवंविधां वाणी कर्कशा शैशवेऽयहो ।

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108