Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
. चतुर्थः प्रस्तावः ।
२२१ श्रेष्ठी वसति यत् तत्र धनप्रवरनामकः ॥ ४७ ॥ जाता धनवतीकुक्षिसम्भवाः तस्य कन्यकाः । सप्तैताः सन्ति चार्वङ्ग्यस्तत्राऽऽद्या धर्मसुन्दरी ॥ ४८ ॥ धनसुन्दर्य थो कामसुन्दरी मुक्ति सुन्दरी । भाग्यसौभाग्यसुन्दा सप्तमी गुणसुन्दरी ॥ ४८ ॥ वरप्राप्तिकते तासां श्रेष्ठिना भक्तिपूर्वकम् । आराध्य तोषितो लम्बोदरो मोदकदालतः ॥ ५० ॥ प्रत्यक्षोभूय सोऽवोचदितः सप्तमवासरे । रात्रौ सुलग्नवेलायां मयोगे प्रगुणोक्कते ॥ ५१ ॥ सुवेषयोषायुगलपृष्ठे यः कश्चिदेष्यति । वेष्ठिन् ! तव सुतानां स भविष्यत्युचितो वरः ॥ ५२ ॥ सेयं सप्तमघस्रस्य रात्रिस्तत् तत्र गम्यते । निवासपादपश्चायं नीयते च सहाऽऽत्मना ॥ ५३ ॥ दध्यौ स पुण्यसारोऽथ तदाकर्ण्य मनस्यदः । अहो ! प्रासङ्गिक मेऽपि भावि कौतूहलेक्षणम् ॥ ५४ ॥ कीदृशी वलभी मा पूः कीदृग् लम्बोदरः स च ? । कीदृक्षाः कन्य काश्चेति सर्व द्रष्टास्मि कौतुकम् ॥ ५५ ॥ विधाय हुंक्रति ताभ्यामुत्क्षिप्तो वटपादपः । उद्याने वलभोपुर्या: गत्वा तस्थौ क्षणेन सः ॥ ५६ ॥ विधाय नायिकारूपं चेलतुर्दैवते ततः ।
तयोरनुपदं पुण्यसारोऽपि चलति स्म सः ॥ ५७ ।। (१) ड ततो-।
(२) ड - कुलदेवते।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108