Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 19
________________ चतुर्थः प्रस्तावः । अभिग्रहेण वि तस्य चित्तं सन्तोषपूरितम् । मुक्तिश्च क्रमयोगेन जायते भव्यदेहिनः ॥ ५ ॥ एतेषु नियतं धर्मलक्षणष्वपि पञ्चसु । यूयं महानुभावा भोः ! प्रयत्नं कुरुतान्वहम् ॥ ६ ॥ श्रुत्वेमा देशनां जीवाः प्रतिबुद्धा अनेकशः । प्रावति च जिनेन्द्रेगा तीथं गणधराऽऽदिकम् ॥ ७ ॥ वज्रायुधोऽपि धर्मस्य प्रतिपत्तिं विधाय ताम् । प्रणम्य भगवन्तं च प्रविवेश पुरौं निजाम् ॥ ८ ॥ अन्यदाऽऽयुधशालायां चक्ररत्नं सुनिमलम् । समुत्पन्नं तस्य यक्षसहस्राऽधिष्ठितं वरम् ॥ ८ ॥ विधायाष्टदिनान्यस्य पूजां तदनुगाम्यसो । षटखण्डं साधयामास विजय मङ्गलावतीम् ॥ १० ॥ ततो निजपुरी प्राप्तः चक्रवर्तिश्रियाऽञ्चितः । सहस्रायुधपुत्रं स यौवराज्ये न्यवेशयत् ॥ ११ ॥ अन्यदाऽऽस्थानमासीन: स वज्रायुधचक्रभृत् । अभूद् यावद् नृपामात्यपदातिपरिवारितः ॥ १२ ॥ तावद् नभस्तलात् कश्चिदेत्य विद्याधरो युवा । भयात् प्रकम्पमानाङ्गः शरणं तं समाश्रितः ॥ १३ ॥ तस्य पृष्ठे वरा काचित् खड्गखेटकधारिणी। आगाद् विद्याधरी विदाधरश्चैको 'गदाधरः ॥ १४ ॥ (१) ङ युवा पुनः ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108