Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२१४
थोशान्तिनाथचरित्रे
वाञ्छनपि सुतं थष्ठी भणित: स्वजनैरपि । तस्याः स्नेहपरो नारी नान्यां परिगिानाय सः ॥ ७६ | यक्ष भट्टारिका वा नो काचिदर्थयति स्म सः । नैवोपयाचितं चक्रे तयोः स्थिरसुदर्शन: ॥ ७७ ॥ सन्तानार्थी म चाऽन्येारभ्यर्च कुलदेवताम् । उवाच सप्रियोऽप्येवं प्रणिपातमसंस्पृशन् ॥ ७८ ॥ अस्माकं पूर्वजैः सर्वैः पूजिता त्वं मयाऽपि च । इहलोक सुखस्याऽर्थे सर्वदा कुलदेवते ! ॥ ७ ॥ अविद्यमानसन्ताने परलोकं गते मयि । पूजां बन्धुजनस्येव करिष्यति तवापि क: ? ॥ ८० ॥ तत्त्वं ज्ञात्वाऽवधिज्ञानेनाऽऽख्याहि मम सन्ततिम् । भविष्यत्यथवा नेति नान्यत्त्वामर्थयाम्यहम् ॥ ८१ ॥ देवतोवाच श्रेष्ठिन् ! ते भविष्यति सुतः खलु । धर्मे प्रवर्तमानस्य गते काले कियत्यपि ॥ ८२ ॥ ततः प्रहृष्ट चित्तोऽसौ एहवासमपालयत् । कुलकमाऽऽगतं धर्म विशेषेण चकार च ॥ ८३ ॥ कश्चित् पुण्याधिको जीवः सतत्वेन समागमत् । कुक्षी पुण्य थियोऽन्येा चन्द्रवप्नोपतूचितः ॥ ८४ ॥ तत्स्वप्नदर्शनं प्रात: स्वभर्ता ज्ञापितस्तया। तेनाऽप्यासादिता पुत्र जन्मना सा सुचेतसा ॥ ८५ ॥
(१) घ जसः ।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108