Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२०
चतुर्थः प्रस्तावः । होपस्यास्यैव विशदैरवत क्षेत्रमध्यगे । पुरे विन्ध्यपुरे राजा विन्ध्यदत्ताभिधोऽभवत् ॥ २५ ॥ पत्नी सुदक्षिणा तस्य जन्ने तत्कुक्षिसम्भवः । तनयो नलिन के तुरिति ख्यातो महीतले ॥ २६ ॥ तत्रैव नगरे धर्ममित्रसार्थ पतेः सुतः ।। श्रीदत्ताकुक्षिसम्भूतो दत्तो नामाभवद् धनी ॥ २७ ॥ रूपेण रतिसङ्काशा कात्या चन्द्रप्रियासमा । जज्ञे प्रभङ्गारानाम्नी दत्तस्य हिणी वरा ॥ २८ ॥ सुशृङ्गाररसमये वसन्तसमयेऽन्यदा। गवोद्यानवने दत्तः क्रीडति स्म तया सह ॥ २८ ॥ नृनाथतनयः सोऽथ दृष्ट्वा तां सुन्दराऽऽकृतिम् । बाणेविषमबाणस्य पञ्चभिस्ताडितो हृदि ॥ ३० ॥ स्वामित्वयौवनैश्वर्यगर्वित: सोऽथ तां ततः । अपजङ्गेऽगणयित्वा कलङ्क कुलशोलयोः ॥ ३१ ॥ भुङ्क्ते स्म विषयसुखं कुमारः स तया सह । दत्तश्च तहियोगार्ता ययावुद्यानमन्यदा ॥ ३२ ॥ सुसाधुः सुमनास्तत्र तत्कालोत्पन्न केवलः । दृष्टोऽमुना वन्द्यमानो देवदानवमानवैः ॥ ३३ ॥ तेनापि वन्दितो भावमार मुनिवरच सः । बोधयामास दत्तं तं धर्मदेशनयाऽग्राया ॥ ३४ ॥ कृत्वा दानाऽऽदिक धर्म मृत्वा चाऽऽयुःक्षयेऽथ सः । सुकच्छ विजये वैताढ्याद्रो विद्याधरेशितुः ॥ ३५ ॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108