________________
२०६
श्रीशान्तिनाथचरित्रे
उज्झिकातुल्य आख्यातः शिष्यः त्यक्तव्रतो हि यः । इह लोके परलोके स भवेद् दुःखभाजनम् ॥ ८५ ॥ लिङ्गमात्रोपजीवी यः स द्वितीयस्नुषासमः । व्रतपालनसंप्रीतो भाण्डागारवधूपमः ॥ ८६ ॥ धर्मदेशनयाऽन्येषामप्यारोप्य व्रतानि यः ।
सूरिस्तहडिकारी स्यात् स रोहिण्या समो मतः ॥ ८७ ॥ श्रीवीर जिनका लेदो भविष्यति कथानकम् । ततो व्रतानि पञ्चात्त्राऽधुना चत्वारि तानि तु ॥ ६८ ॥ एवं शिक्षाकथां श्रुत्वा जितशत्रुर्महीपतिः । प्रव्रज्यां पालयामास श्रीदत्तगुरुसन्निधौ ॥ ८६ ॥ तद् भो भव्याः ! अहिंसाऽऽदिलक्षणं धर्ममुत्तमम् । परोक्ष्य विदधौतेति क्षेमङ्गरजिनोऽब्रवीत् ॥ ४०० ॥ दुःखपर्वतदम्भोलिर्भाजनं सुखसन्ततेः । अहिंसा व्रतमुख्या सा स्वर्गमोक्षविधायिनी ॥ १ ॥ सत्येन लभ्यते कीर्तिः सत्यं विश्वासकारणम् । सत्यं जयति लोकेऽस्मिन् द्वितीयं धर्मलक्षणम् ॥ २ ॥ अदत्तत्यागतो नृणां राजदण्डो न जायते । विशिष्टजनसंयोगो निर्भयत्वं च जायते ॥ ३ ॥
ब्रह्मव्रतेन तेजस्वी सुभगश्च भवेद् नरः । नपुंसकत्वं तिर्यक्त्वं कदापि न लभेत च ॥ ४ ॥
(१)
ज महामुनिः ।