________________
चतुर्थः प्रस्तावः ।
२०५
अभूवन् पञ्चमे वर्षे शालिपल्यशतान्यथ । पुनर्निमन्त्य लोकं तं श्रेष्ठी भोजयति स्म च ॥ ८५ ॥ मार्गयामास तान् पञ्च कणान् ज्येष्ठवधूं ततः । पल्यान्तरात् समानीयाऽपयामास सकाऽपि तान् ॥ ८६ ॥ देवगुर्वादिशपथपूर्व भणितया तया । तस्य सत्यं समाख्यातं रुष्टः श्रेष्ठी ततोऽवदत् ॥ ८७ ॥ मया समर्पिताः शालिकणा यद्यनयोज्झिताः । रजोभस्म गोमयाऽऽदि त्याज्यं तदनया गृहात् ॥ ८८ ॥ पृष्ट्वा शालिकणोदन्तं द्वितीयाऽपि स्नुषाऽमुना । कता रसवतोमुख्यग्टहव्यापारकारिणी ॥ ८८ ॥ चक्रे वधू टतीया च शालिरक्षाविधायिनी। मणिमौक्तिकहेमादिभाण्डागाराधिकारिणी ॥ ८० ॥ शालिवृद्धिकरी साऽथ चतुर्थी रोहिणी वधूः । गृहस्य स्वामिनी चक्रे श्रेष्ठिना दीर्घदर्शिना ॥ ८१ ॥ यथायुक्त विधानेन कृत्वैवं सुस्थितं यहम् । निश्चितं स व्यधात् श्रेष्ठी धर्मव्यापारमन्वहम् ॥ ८२ ॥ थेष्ठितुल्यो गुरुर्जे यः स्नुषातुल्याश्च दीक्षिताः । योज्या महाव्रतानां च पञ्चशालिकणोपमा: ॥ ८३ ॥ सङ्घ चतुर्विधोऽप्यत्र कुलमलनसन्निभः । महाव्रतप्रदानं च तत्समक्षं विधीयते ॥ ८४ ॥
(१) ङ द्वितीयां भक्षितां ज्ञात्वा पाक स्थाने नियोजिता ।
टतीयां रचितां ज्ञात्वा भाण्डागाराधिकारिणीम ॥ ८ ॥