________________
२०४
श्रीशान्तिनाथचरित्रे
तासां वधूनां स्वजनवगं सर्व निमन्त्रा तम् । पोरं चान्यजनं श्रेष्ठी भोजयामास गौरवात् ॥ ७६ ॥ संमान्य वस्त्रताम्बूलाऽऽदिभि: सर्वमथो जनम् । दत्त्वा शालिकगान् पञ्च प्रोचे ज्येष्ठवधमिति ॥ ७७ ॥ प्रत्यक्षं सर्वलोकानां मया ह्येते तवार्पिताः । मार्गयामि यदैवाहमर्पणीया स्तदा स्नुषे ! ॥ ७८ ॥ विसृष्टा तन गत्वाऽथ विजने से त्यचिन्तयत् । नूनं वृद्ध स्वभावेन जातो मे श्वशुरो विधीः ॥ ७ ॥ एवं मेलापकं कृत्वा दत्ता येन कणा इमे । अन्यान् तस्यार्पयिष्यामीति ध्यात्वा त्यजति स्म तान् ॥८॥ एवं दत्ता द्वितीयस्याः साऽपि दध्यो तथैव हि। परं सा वितुषान् कृत्वा कणान् भक्षयति स्म तान् ॥ ८१ ॥ हतीयया तु संचिन्त्य कार्यमेतद् गुरोरिति । रक्षितास्ते सुवस्त्रेण बड्डा भूषण मध्य गाः ॥ ८२ ॥ ते कणास्तुर्यवड्वा च स्वबन्धूनां समर्पिताः । उप्ता वर्षासु संरूढा जाताशातिफलान्विता: ॥ ८३ ॥ प्रथम वत्सरे तेषामभूत् प्रस्थोऽपरेषु च । संजाता बहवः कुम्भाम्तत: कुम्भशतान्यपि ॥ ८४ ॥
(१) ड -स्त्वया। (२) ङ चतुर्था मनसि ध्या त्वा लात्वा पञ्च कणानि च ।
गत्वा च पैट के गेहे दापयति स्म निश्चन्ना ॥ ८३ ॥