Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२०२
थोशान्तिनाथचरित्रे
प्रभो ! प्रोक्त: पिशाचाभ्यां यदि नाम ममात्ययः । देवयोन्युदितस्यापि तस्याभूदत्ययः कथम् ॥ ५५ ॥ मूरिराख्यदहो राजन् ! गौरी नाम ग्रहास्तव । बभूव रूपमम्पन्ना वैश्यवंशसमुद्भवा ॥ ५६ ॥ कर्मदोघण केनापि जाता दौर्भाग्य दूषिता । संजज्ञे सा तवाऽनिष्टा दृष्टा दृष्ट्याऽप्य सौख्यदा ॥ ५७ ॥ ततः सा जातवैराग्या गत्वा पिटगृहे निजे । अज्ञानतपसाऽऽत्मानं शोषयित्वा व्यपद्यत ॥ ५८ ॥ संप्राप्तव्यन्तरोभावा स्मत्वा तं पूर्वमत्सरम् । अधिष्ठायोरगं कायं प्रविष्टा सा तवाऽऽलये ॥ ५८ ॥ कृत्वा पिशाचयो रूपं कुलदेवतया तव । ज्ञापितो देवराजोऽर्थममं त्वत्क्षेमहेतवे ॥ ६ ॥ अचिन्त्या मानुषैर्दैवी शक्तिर्य द्यपि वर्त्तते ॥ तथापि पौरुषं तेजः क्षमं तल्लङ्घने यतः ॥ ६१ ॥ महाविषधर: क्रूरो व्यन्तर्याऽधिष्ठितोऽपि सः । बलिना देवराजेन लीलयैव हतस्ततः ॥ ६२ ॥ (युग्मम्) मूरिं विज्ञपयामास पुनर्नत्वाऽथ भूपतिः । भाग्योदयेन मुक्तोऽहममष्माद् व्यसनात् प्रभो ! ॥ ६३ ॥ भाग्यमेव ततः कर्तुं युज्यतेऽतः परं मम । तद् देहि दत्त ! सुव्रज्यां प्रव्रज्यां शुभदेहिनाम् ॥ ६४ ॥ ततश्च सूरिणा सूत्र विधानेनैष दीक्षितः । महाव्रतानि चारोप्य शिक्षितः सङ्घसाक्षिकम् ॥ ६५ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108