Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 281
________________ सुन्दरकः - अवश्यमस्ति । श्रेष्ठी - केन हेतुना ? | सुन्दरकः –उत्तमर्णत्वेन । मल्लिकामकरन्दनाटकम् | श्रेष्ठी - ( विहस्य ) सुन्दरक ! उपपन्नमभिहितवानसि । ( विमृश्य ) व्रज त्वम्, ऋणप्रदानमङ्गीकृत्य कितवैः सहाऽऽनय रक्षकम् । ( सुन्दरो निष्क्रान्तः । ) ( ततः प्रविशति पञ्चषैर्यूतकारैर्धृतो मकरन्दः । ) श्रेष्ठी - ( विलोक्य स्वगतम् ) अहो ! आकार सौन्दर्यम्, अहो ! शरीरलक्षणानां प्रशस्तता, कटरि ! गतेः प्रागल्भ्यम् । ( पुनः सजुगुप्सम् ) सर्वेषामपि लक्षणानां दुरोदरव्यसनमन्तरायः । अथवा व्यसनान्धमेवेदं जगत् । केचिद भोजनभङ्गिभिर्नराधियः केचित् पुरन्ध्रीपराः केचिन्माल्यविलेपनैकरसिका गीतोत्सुकाः केचन । केऽपि द्यूतकथा - मृगव्य-मदिरा-ताम्बूल-शस्त्रोन्मुखाः केचिद वाजि-गजोक्षयान सदनाऽपत्याऽऽसनव्याकुलाः ॥६॥ भवतु । ( प्रकाशम्) इदमासनमास्यताम् । ( सर्वे मकरन्दं परिवृत्योपविशन्ति । ) श्रेष्ठी - ( विमृश्य द्यूतकारान् प्रति ) भवत क्षणमेकं दवीयांसो यूयम् द्यूतकाराः - ( साक्षेपम् ) अयमस्माभिरनङ्गभवनपृष्ठनिलीनो निशीथसमये महता प्रयासेन प्राप्तः । तदिदानीमस्मासु नेदीयोदेशस्थितेष्वेव सर्वमेतेन विधातव्यम्, भवद्भिविधापयितव्यं च । श्रेष्टी - किमेतेन भवतां देयम् ? | द्यूतकाराः - दीनारपञ्चशतानि । श्रेष्ठी - अहो ! सदृशः कथासन्निवेशः । अस्माभिरप्येतावदेवास्य देयम् । ततो व्रजत यूयम्, प्रातर्वयं भवतामेनमर्पयामो देयं वा । यदि वा किमेतेन वणिजां समुचितेन कुटिलभणितेन ? । एतस्याकारदर्शनेनैव वयमावर्जिताः । प्रयोजनं यथा तथा वास्तु । देयमस्माभिर्भवतां प्रातर्देयमिति । द्यूतकाराः श्रेष्ठिन् ! प्रमाणं वयम् ? । अङ्गीकृतो विधि: ?, व्रजामो वयम् ? | Jain Education International - For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358