Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
3x
महाकविश्रीरामचन्द्रविरचितं
मकरन्दः - उपपन्नमिदम् । कथितं च तापसेन-स पुनर्गर्भोऽहमेव । ( पुनविमृश्य ) मागधिके ! किमिति पुरुषरूपं कारिता मल्लिका ? ।
मागधिका - 'अवरेण अवहाररक्खणत्थं । मकरन्दः - ( साक्षेपम् )। ___ अर्गला रक्षणे स्त्रीणां प्रीतिरेव निरर्गला ।
पदातिपरिवेषस्तु पत्युः क्लेशाय केवलम् ॥२॥ भवतु, ततः किं तस्याः साम्प्रतम् ?
( मागधिका उच्चैःस्वरं प्रलपति । ) मकरन्दः - मागधिके ! कथय कथय, पर्याकुलोऽस्मि ।
मागधिका - 'किं कहेमि मंदभाइणी ? मल्लियाए दाणि जीविदस्स वि संदेहो वट्टदि । सा खु लयाहराओ चंदलेहाए सभवणं नेऊणं तुमं समरंती कसाघादेहिं ताडिदा। ___ मकरन्दः - मागधिके ! मां स्मरन्ती कशाभिरभिताडिता मिया । हा प्रिये मल्लिके ! मत्प्रेमग्रहिला महाक्लेशाननुभवसि । ( विमृश्य ) मागधिके ! ब्रज त्वम् । ब्रूहि चरममेतत् प्रियाम्-स्मतव्यस्त्वया कदाचिन्महाक्लेशहेतुषु स्मयमाणेषु निर्भाग्यशेखरः सोऽहम् ।।
. मागधिका - 'महाभाय ! कीस अत्ताणयं मिल्लेसि ? __ मकरन्दः - मागधिके ! न किमपि वक्तव्यस्त्वया । साम्प्रतमहं न शक्नोमि प्रियापरित्राणाक्षमोऽहं जीवितुम् । ( उत्थाय सास्रं देवतां प्रणम्य ) भगवन् ! जन्मान्तरेऽपि मे सुलभदर्शनो भूयाः । ( असिधेनुकयोऽऽत्मानमतिहन्तुमारभते, विलोक्य ) दो स्तम्भ इव मे ।
( आकाशे )
कोऽयं सिद्धायतनेषु प्राणाभिघातः ? । मागधिका - महाभाय ! दिव्वाए वायाए को वि तुम वारेदि । १ अपरेण अपहाररक्षणार्थम् ।
२ किं कथयामि मन्दभागिनी ? मल्लिकाया इदानीं जीवितस्यापि सन्देहो वर्तते, सा खलु लतागृहात् चन्द्रलेखया स्वभवनं नीत्वा त्वां स्मरन्ती कशाघातैस्ताडिता ।
३ महाभाग ! कस्मादात्मानं मुञ्चसि ? । ४ महाभाग ! दिव्यया वाचा कोऽपि त्वां वारयति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358