Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 318
________________ महाकविश्रीरामचन्द्रविरचित मल्लिका - 'जइ अंगलच्छि वणियम्मि निक्खेवेमि ता वियड्ढजणमणस्स विसाओ । अह तुमम्मि निक्खेवेमि ता मह मणस्स । किंच-सबस्स वि जणस्स अप्पा वल्लहो, न उण परो । ता तुम ज्जेव कहेसु, किं दाणिं करेमि । चित्राङ्गदः - किमेताभिर्वक्रोक्तिभिः ? । अवलम्बरव दीर्घदर्शिताम् । विचिन्तय विद्याधरलक्ष्मीसौभाग्यम् । अनुतिष्ठ यदभिधत्ते जनयित्री । (मल्लिका निःश्वस्य तूष्णीमास्ते । ) कपिञ्जलः - स्वामिनि ! प्रत्युत्तरेण प्रसीद । (मल्लिका सरोषमास्ते । ) चित्राङ्गदः - ( सदैन्यम् ) अयि कुवलयनेत्रे ! देहि वाचं प्रसीद प्रणयिषु वद मुग्धे ! कोऽप्रसादापवादः ?। त्वयि सुदति ! वदन्त्यां जीवितं यौवनश्री लेलितमथ धनं वा चारिमा वा मुदे नः ॥१८॥ मागधिका - कुमार ! 'अप्पाण लाहवं चिय विरम विसेसेसु अणुणयपराणं । बंधुअणचाडणेण य न णाम जीवंति गयपाणा ॥१९॥ कपिजलः - कुमार ! सत्यमाह मागधिका । तदिदानी विरम्यतेऽमुष्मादध्यवसायात् । परिणयतामियं वणिनम् । अनुभवतु मनुष्यदास्यम् । (चित्राङ्गदः कपिजलस्य कर्णे एवमेव । ) . ( कपिञ्जलो निष्क्रान्तः ।) चित्राङ्गदः - ( साक्षेपम् ) मल्लिके ! कीदृशस्ते मनोनिश्चयः ? । मल्लिका - 'मयरंदं परिणेमि, न तुमं, एस मे निच्छओ । (ततः प्रविशति करालेन गृहीतकेशपाशः सन्दानितभुजो मकरन्दः कपिञ्जलश्च ।) १ यदि अङ्गलक्ष्मी वणिजि निक्षिपामि तदा विदग्धजनमनसः बिषादः । अथ त्वयि निक्षिपामि तदा मम मनस: । किञ्च-सर्वस्य जनस्य आत्मा वल्लभः, न पुन: पर: । तत् त्वमेव कथय, किमिदानीं करोमि ?। २ आत्मनां लाघवमेव विरमस्व विशेषेषु अनुनयपराणाम । बन्धुजनचाटनेन च न नाम जीवन्ति गतप्राणाः ।।१९।। ३ मकरन्दं परिणयामि, न त्वाम, एष मे निश्चयः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358