Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 326
________________ महाकविश्रीरामचन्द्रविरचितं सम्पर्कपर्वणि सुधां वपुषि क्षरन्ती सत्यं सुधांशुकिरणैः परिकल्पिताऽसि । मर्माणि मर्मरकणैर्विरहे भिनत्सि तेनासि विह्निघटितेत्यपि मे वितर्कः ॥७॥ मागधिका - कुमार ! 'निक्कारणपिम्मगहिल्लियाओ महिलाओ जाण गेहम्मि । ताण मणुआण मणुअत्तणे वि देवत्तरिद्धीओ ॥८॥ कपिजलः - मागधिके ! अत्यल्पमभिदधासि । मल्लिकायां देवत्वमिति लध्वी मात्रा। चित्राङ्गदः - ( सस्पृहम् ) मृदे तस्यै बद्धः करतलयुगेनाञ्जलिरयं __ यया क्लृप्ताऽसि त्वं मनसिजवधूटीप्रतिकृतिः । स वेधा दुर्मेधाः खलु पुनरमार्ग कविगिरां विधाय त्वां चक्रे न किल निजकान्तां सुदति ! यः ॥९॥ ( मल्लिका सलज्जमधोमुखी भवति । ) चित्राङ्गदः- अपि च चन्द्रमुखि ! अभाग्यदोषः स रसातलस्य न शेषकन्या भवती यदासीत् । त(? त्व)द्वक्त्रचन्द्रेऽसति तत्र सान्द्र तमोऽन्यथा कुत्र पदं लभेत ? ॥१०॥ मल्लिका - ( सात्त्विकभावानभिनोय ) अज्जउत्त ! वणियतणया अहयं अणरिहा ईदिसाणं विन्नाणाणं । चित्राङ्गदः - ( साक्षेपम् ) मृगाक्षि ! नाद्यापि दुर्भाषितेभ्यो विरमसि ? याता कामगवी दिवं व्यपहृता कादम्बरी दानवै नीता साऽपि सुरैः सुधा श्रितवती लक्ष्मीर्मुरारेरुरः । इत्थं स्वैरविहारशालिनि सुतावर्ग सुताकौतुकी भूयस्त्वामजनिष्ट विष्टपदृशां पीयूषमम्भोनिधिः ॥११॥ १ निष्कारणप्रेमनाथला महिला येषां गृहे । तेषां मनुजानां मनुजत्वेऽपि देवत्वर्द्धयः ॥८॥ २ आर्यपुत्र ! वणिक्तनया अहं अनर्हा ईदृशानां विज्ञानानाम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358