Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
मल्लिकामकरन्दनाटकम् ।
- ( मल्लिकाऽन्यतोऽवलोकयति ।) चित्राङ्गदः - मृगाक्षि ! कथं दिक्षु चक्षुषी निक्षिपसि ? मद्वक्त्रमालोकय ।
मल्लिका - 'अज्जउत्त ! अत्तणो दुच्चरिदाई समती न सक्केमि तुम पिक्खिहूँ। चित्राङ्गदः - ( सरोमाञ्चम् )
अयि ! जगति वदन्त्यां प्रेमगर्भ भवत्या
ध्रुवमवगतलज्जाः कोकिला व्याहरन्ते । सति च तव मुखेन्दौ निष्कलङ्के सदैव
प्रमदमयमगच्छन्नब्बुराशिजेडात्मा ॥१२॥ मल्लिका - 'अज्जउत्त ! खमेसु सब्बमवरद्धं, अवरं तुह चरणिक्कसरणा चित्राङ्गदः - ( सहर्षगर्वम् ) शतपत्रलाक्षि !
अद्याभूवं खचरगणनापात्रमद्यास्मि दृष्टः ।
सन्तुष्टाभ्यां स्तिमितमनसा वेधसा लोचनाभ्याम् । देवस्यापि द्रहिण-मुरजित्पार्वतीशस्तुतांहेः
कामस्याद्य ध्रुवमकरवं स्तोकमीाभिषेकम् ॥१३॥ पि च कलकण्ठीकण्ठि ! .
शास्त्रे त्वयि त्रिजगतो विजयैकशौण्डे - विख्यातधाग्नि हतके मसृणावलोकः । मथनाति किं न हरवैरमयं मनोभूरल्पीयसोऽपि समये सफलः प्रयत्नः ॥१४॥
(नेपथ्ये ) 'साहु जंपिदं कुमार ! तुमए साहु । मल्लिका - ( विलोक्य ) 'कथं एसा मनोरमा ? ।
(प्रविश्य) मनोरमा - साहु जंपिदं कुमार ! तुमए साहु । ( मल्लिका प्रति ) भट्टिदारिए ! भयवई तुम आदिसदि।
१ आर्यपुत्र ! आत्मनः दुश्चरितानि स्मरन्ता न शक्नोमि त्वां प्रेक्षितुम् । २ आर्यपुत्र ! क्षमस्व सर्वमपराद्धम्, अपरं तव चरणैकशरणा अहम् । .३ साधु जल्पितं कुमार ! त्वया साधु ।
४ कथमेषा मनोरमा १ । ... ५ साधु जल्पितं कुमार ! त्वया साधु । भर्तृदारिके ! भगवती त्वां आदिशति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358