Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मल्लिकामकरन्दनाटकम् ।
(नेपथ्ये) एष इदानीं लग्नसमयः।
गन्धमूषिका - वैश्रवण ! प्रगुणय यक्षाधिराजस्य दक्षिणं करम् । (चन्द्रलेखां प्रति) त्वं पुनर्मल्लिकायाः ।
(उभौ तथा कुरुतः।)
(नेपथ्ये झल्लरीझात्कारः।) पुण्याहं पुण्याहम् (-इत्युच्चारयति ।) (चित्राङ्गद-चन्द्रलेखे वधू-वरस्य पाणो योजयतः । मनोरमा मङ्गलानि गायति । )
(प्रविश्य ) देवलकः - (गन्धमूषिकां प्रति) भगवति ! चित्राङ्गदलग्नसमय इदानीम् । ततः पाणिमोचनामाधाय त्वरिततरमागच्छत यूयम्-इति मौहर्तिकाः शंसन्ति।
गन्धमूषिका - ( ससम्भ्रमं चित्राङ्गदं प्रति) उत्क्षिप्य यक्षराजं मल्लिकया सह प्रदक्षिणीकारयत भगवन्तमाशुशुक्षणिम् ।
चित्राङ्गदः - (तथा कृत्वा) भगवति ! यक्षराजस्य मनुष्यशरीरनिर्विशेषः शरीरस्पर्शः। . गन्धमूषिका - कुमार ! स्वर्गभूमिमृत्तिकाभिर्देवनिर्मितेयं प्रतिमा । ततः सम्भाव्यते स्पर्शसौभाग्यम् ! (पुनश्चन्द्रलेखां प्रति) प्रयच्छ यक्षराजाय पाणिविमोचनार्थ किमपि ।
चन्द्रलेखा - (प्रणम्य) परमेश्वर ! विमुञ्च वत्सायाः पाणिम् । दास्यामि तुभ्यं सुवर्णसहस्राभरणम् ।
यक्षः - (साक्षेपम्) किमिदमकुलीनोचितं व्याहरसि ? किमुचितं सधर्मचारिण्या विमोचनम् ?।
सर्वे - (ससम्भ्रमं) कथमयं साक्षाद् यक्षराइ मनुष्यवाचा वदति !।
चन्द्रलेखा - (दीपं सन्निधाप्य) कथमेष मकरन्दः ? न कादम्बः ? । भगवति ! किमिदम् ? ।
गन्धमूषिका - वैश्रवण ! किमिदम् ?। वैश्रवणः - भगवति ! नाहमप्यवगच्छामि । चित्राङ्गदः - (विषादम्) कपिजल ! किमिदमस्माकं ब्रीडाकरं कर्म ? । कपिजलः - कुमार ! इन्द्रजालमिव दृश्यते ।
चन्द्रलेखा - (वैश्रवणं प्रति) जातं यद् भाव्यम्, किं मां प्रतारयसि ? । अभयं ते, कथय परमार्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358