Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मल्लिकामकरन्दनाटकम् । तामरसः - भगवती गन्धमूषिका देवी चन्द्रलेखा च युवयोरित्यादिशति। उभौ - (सविनयम्) किम् ?। तामरसः - अस्ति दक्षिणेन सिद्धायतनस्य तमोराजी नाम कन्दरी । चित्राङ्गदः - ततः किम् ? ।
तामरसः - भगवद्वारिषेणपादपद्मोपसेवी कादम्बनामा यक्षाधिपतिः प्रतिमारूपेण तामधिवसति, ततस्तत्र युवाभ्यामागन्तव्यम् ।
चित्राङ्गदः -प्रत्यासीदति लग्नसमयः, किमावयोस्तत्रागमनमुचितम् ? । तामरसः - प्रथमं तत्र लग्नम्, अनन्तरमत्र । चित्राङ्गदः - (साक्षेपम् ।) तत् किमावयोर्द्विः परिणयनविधिः ? ।
तामरसः - कुमार ! सन्देशहरोऽहं नास्य पर्यनुयोगस्य पात्रम्, किमुत गन्धमूषिका चन्द्रलेखा च ।
(चित्राङ्गदः मल्लिकामुखमवलोकयति ।) देवलकः - कुमार ! विद्याधराणामीदृशः कुलाचारः । चित्राङ्गदः - कीदृशः?
देवलकः - प्रथमं कन्यकायाः कादम्बकः पाणिं गृह्णाति । ततः पाणिपर्वणोऽनन्तरं वरः।
चित्राङ्गदः - यदि कुलाचारस्तर्हि मुद्रितो विचारप्रचारः। कृतं कालविल. म्बनेन । एते वयमागच्छामः । ( इति सर्वे परिक्रामन्ति ।)
तामरसः - कुमार ! तदिदं सिद्धायतनम् , सेयं दक्षिणतस्तमोराजी ।
चित्राङ्गदः - ( साशङ्कम् ) प्रिये मल्लिके ! कथमिदानी प्रमोदावसरे वाम चक्षुः स्फुरति ?। . तामरसः - अन्धकारप्राग्भारदुर्लक्ष्यविषमोन्नतप्रवेशप्रदेशा तमोराजी, तुतः स्थपुराभिघातेनापि भाव्यम् । * चित्रादः - यधेतावानेव साम्प्रतमुदर्कः, तर्हि बद्धावधानः प्रवेक्ष्यते । : तामरसः - इतः । .. : :
(सर्वे मध्यप्रवेशं नाटयन्ति) चित्राङ्गदः - कथं दीपज्योतिषाऽपि न तादृशः प्रकारने यादृशेन विस्पष्टा रूपव्यक्तिर्भवति ।
तामरसः - कुमार ! इयं भगवती गन्धमूषिका, इयं देवी चन्द्रलेखा,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358