SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । तामरसः - भगवती गन्धमूषिका देवी चन्द्रलेखा च युवयोरित्यादिशति। उभौ - (सविनयम्) किम् ?। तामरसः - अस्ति दक्षिणेन सिद्धायतनस्य तमोराजी नाम कन्दरी । चित्राङ्गदः - ततः किम् ? । तामरसः - भगवद्वारिषेणपादपद्मोपसेवी कादम्बनामा यक्षाधिपतिः प्रतिमारूपेण तामधिवसति, ततस्तत्र युवाभ्यामागन्तव्यम् । चित्राङ्गदः -प्रत्यासीदति लग्नसमयः, किमावयोस्तत्रागमनमुचितम् ? । तामरसः - प्रथमं तत्र लग्नम्, अनन्तरमत्र । चित्राङ्गदः - (साक्षेपम् ।) तत् किमावयोर्द्विः परिणयनविधिः ? । तामरसः - कुमार ! सन्देशहरोऽहं नास्य पर्यनुयोगस्य पात्रम्, किमुत गन्धमूषिका चन्द्रलेखा च । (चित्राङ्गदः मल्लिकामुखमवलोकयति ।) देवलकः - कुमार ! विद्याधराणामीदृशः कुलाचारः । चित्राङ्गदः - कीदृशः? देवलकः - प्रथमं कन्यकायाः कादम्बकः पाणिं गृह्णाति । ततः पाणिपर्वणोऽनन्तरं वरः। चित्राङ्गदः - यदि कुलाचारस्तर्हि मुद्रितो विचारप्रचारः। कृतं कालविल. म्बनेन । एते वयमागच्छामः । ( इति सर्वे परिक्रामन्ति ।) तामरसः - कुमार ! तदिदं सिद्धायतनम् , सेयं दक्षिणतस्तमोराजी । चित्राङ्गदः - ( साशङ्कम् ) प्रिये मल्लिके ! कथमिदानी प्रमोदावसरे वाम चक्षुः स्फुरति ?। . तामरसः - अन्धकारप्राग्भारदुर्लक्ष्यविषमोन्नतप्रवेशप्रदेशा तमोराजी, तुतः स्थपुराभिघातेनापि भाव्यम् । * चित्रादः - यधेतावानेव साम्प्रतमुदर्कः, तर्हि बद्धावधानः प्रवेक्ष्यते । : तामरसः - इतः । .. : : (सर्वे मध्यप्रवेशं नाटयन्ति) चित्राङ्गदः - कथं दीपज्योतिषाऽपि न तादृशः प्रकारने यादृशेन विस्पष्टा रूपव्यक्तिर्भवति । तामरसः - कुमार ! इयं भगवती गन्धमूषिका, इयं देवी चन्द्रलेखा, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy