SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ દૂર महाकविश्रीरामचन्द्रविरचित इयं मङ्गलकलशाध्यासिता विवाहवेदी, इयं च सम्मुखीना यक्षाधिपतेः प्रतिमा, एतौ च मनोरमा वैश्रमणौ । ( ततः प्रविशन्ति यथानिर्दिष्टाः सर्वे । ) गन्धमूषिका - वत्स चित्राङ्गद ! वत्से मल्लिके ! प्रणमतां भवन्तौ भगवन्तं यक्षाधिराजम् । ( उभौ सबहुमानं प्रणमतः 1 ) ( मनोरमा स्मित्वा मल्लिका मुखमवलोकयति । ) मल्लिका – 'हियय ! समस्सस समस्सस । मणोरहा वि दे इत्तियं भूमिं न संपत्ता | वैश्रवणः - भगवति ! अहमिदानीं यक्षस्यानुचरः । मनोरमा - जइ एवं ता भट्टिदारियाए अहयं । चित्राङ्गदः - (सहासम् ) भगवति ! किमिदानीं मया विधेयम् ? | गन्धमूषिका - कुमार ! त्वया कपिञ्जलेन च साक्षिणा भाव्यम् । (पुनर्विमृश्य) तामरस ! व्रज त्वं देवलक-मागधिकाभ्यां सह सौतलम् । विधेहि कुमार विवाहोचितां सामग्रीम् । ( इति तामरसो देवलक-मागधिकाभ्यां सह निष्क्रान्तः ।) (प्रविश्य) दुः - ( गन्धमूषिकांप्रति ) भगवति ! लग्नसमय इदानीम् । समाप्यतां कौतुकविधिः, प्रतिरुध्यतां कोलाहलः, अवधीयतां झल्लरीझात्कारः । गन्धमूषिका - चन्द्रलेखे ! विधेहि वधू-वरस्य प्रोक्षणादिकां क्रियाम् । मनोरमे ! उपनय दधि-दूर्वा ऽक्षतादीनि । ( उभे कुरुत: । ) गन्धमूषिका - वैश्रवण ! परिधापय सदृशान्यंशुकानि यक्षाधिराजम्, धान मदनकडकं दक्षिणकलाच्याम् । (वैश्रवणः सर्वमाचरति । ) गन्धमूषिका - कुमार ! चन्द्रलेखे ! फलार्थदानपूर्वकं उपनयतां यक्षाधिराजाय मल्लिकाम् । चित्राङ्गद : चन्द्रलेखा - भगवन् ! प्रदत्ता मया तुभ्यं वत्सा । तथा प्रसीद यथा यावज्जीवमविधवा भवति । - (प्रणम्य) भगवन् ! परिणय मल्लिकामेताम् । Jain Education International १ हृदय ! समाश्वसिहि । मनोरथा अपि ते इयतीं भूमिं न सम्प्राप्ताः । २ यदि एवं तद् भर्तृदारिकाया अहम् । For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy