Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
५६
महाकविश्रीरामचन्द्रविरचित 'स पुनरिदानी मकरन्दः क्व वर्तते ?' इति ज्ञायते ? ।
माकन्दः - ( उपसृत्य ) सखे तामरस ! इदानीं यथा मकरन्दो वर्तते तथा शृणु, कथयामि ।
तामरसः - सखे ! समासतः प्रथमं तावदाचन, प्राणानां कुशलं न वा?।
माकन्दः - कथं न कुशलं प्रतिज्ञातवत्यां चित्राङ्गदविवाहं भगवत्यां गन्धमूपिकायाम् ।।
तामरसः - एतावतैव भवतो वक्रोक्तिव्याहारेण परिज्ञातः समासतः परमार्थः । तथापि सविस्तरमावेदय ।
माकन्दः - अतीतरजनीनिशीथे गन्धमूषिकायाः समादेशेन मकरन्दमहं सिद्धायतनस्थाय भगिनीपतये वैश्रवणाय उपनीतवान् ।।
तामरसः - किमियं गन्धमूषिकाया मनोरमा भागिनेयी ? । अत एव गन्धमूषिका वैश्रवणे प्रसादवती । प्रस्तुतमभिधीयताम् । ___ माकन्दः - स च वैश्रवणस्तदानीमेव तं मकरन्दं तमोगुहायां कृपाणेन (इत्योक्ते तूष्णीमास्ते । ) .
तामरसः - महान् वैश्रवणः, महती च भगवती गन्धमूषिका, तम्निमित्तमनार्यमिदमाचचार । माकन्दः - ( साक्षेपम् ) किमेवमचतुरोचितं वचः प्रपञ्चयसि ? ।
अकृत्यमाचरत्येव सर्वः प्राण-धनेच्छया ।
महानेषोऽमहानेषः सैष भेदोऽन्यवस्तुषु ॥४॥ तामरसः - तत् किमत्रार्थे धनलाभः कोऽपि ?। .
माकन्दः - सखे ! किं ममानेन प्रभुकौलीनप्रकाशनेन ? तत् कथय क्व प्रस्थितोऽसि ?।
तामरसः - मल्लिकया चित्राङ्गदाकारणाय प्रेषितोऽस्मि । माकन्दः - वन तहि, अहमपि गन्धमूपिकायाः सविधमधितिष्ठामि ।
( इति निष्क्रान्तौ । )
॥ विष्कम्भकः ॥ ( ततः प्रविशति चित्राङ्गदो मल्लिका च, कपिञ्जल-देवलक-मागधिकाप्रभृतिकश्च परिवारः)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358