SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ५६ महाकविश्रीरामचन्द्रविरचित 'स पुनरिदानी मकरन्दः क्व वर्तते ?' इति ज्ञायते ? । माकन्दः - ( उपसृत्य ) सखे तामरस ! इदानीं यथा मकरन्दो वर्तते तथा शृणु, कथयामि । तामरसः - सखे ! समासतः प्रथमं तावदाचन, प्राणानां कुशलं न वा?। माकन्दः - कथं न कुशलं प्रतिज्ञातवत्यां चित्राङ्गदविवाहं भगवत्यां गन्धमूपिकायाम् ।। तामरसः - एतावतैव भवतो वक्रोक्तिव्याहारेण परिज्ञातः समासतः परमार्थः । तथापि सविस्तरमावेदय । माकन्दः - अतीतरजनीनिशीथे गन्धमूषिकायाः समादेशेन मकरन्दमहं सिद्धायतनस्थाय भगिनीपतये वैश्रवणाय उपनीतवान् ।। तामरसः - किमियं गन्धमूषिकाया मनोरमा भागिनेयी ? । अत एव गन्धमूषिका वैश्रवणे प्रसादवती । प्रस्तुतमभिधीयताम् । ___ माकन्दः - स च वैश्रवणस्तदानीमेव तं मकरन्दं तमोगुहायां कृपाणेन (इत्योक्ते तूष्णीमास्ते । ) . तामरसः - महान् वैश्रवणः, महती च भगवती गन्धमूषिका, तम्निमित्तमनार्यमिदमाचचार । माकन्दः - ( साक्षेपम् ) किमेवमचतुरोचितं वचः प्रपञ्चयसि ? । अकृत्यमाचरत्येव सर्वः प्राण-धनेच्छया । महानेषोऽमहानेषः सैष भेदोऽन्यवस्तुषु ॥४॥ तामरसः - तत् किमत्रार्थे धनलाभः कोऽपि ?। . माकन्दः - सखे ! किं ममानेन प्रभुकौलीनप्रकाशनेन ? तत् कथय क्व प्रस्थितोऽसि ?। तामरसः - मल्लिकया चित्राङ्गदाकारणाय प्रेषितोऽस्मि । माकन्दः - वन तहि, अहमपि गन्धमूपिकायाः सविधमधितिष्ठामि । ( इति निष्क्रान्तौ । ) ॥ विष्कम्भकः ॥ ( ततः प्रविशति चित्राङ्गदो मल्लिका च, कपिञ्जल-देवलक-मागधिकाप्रभृतिकश्च परिवारः) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy