SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । ५७ चित्राङ्गदः - ( मल्लकामालोक्य सविनयम् ) अङ्गं शिरीषमृदु काञ्चनकुम्भशोमां मुष्णात्ययं स्तनयुगस्तबकावलेपः । वाचः सुधामुपहसन्ति जलोद्भवां तां केनासि पुष्पधनुषोऽपि न मन्मथाय ! ॥५॥ .( पुनः सोपालम्भम् ) प्रिये ! विदग्धजनप्रकाण्डं तत्रभवती भवती। ततः कथं पामरजनोपलक्ष्येऽपि विशेषतो बाहं व्यामूढाऽसि ? । क्व चामी वयं विद्याधराः ? क्य चायं किराट कीटः ? । अप्रियभाषित्वं प्रथमं दौर्भाग्यकारणम्, कुतस्ततः प्रतिवान्धवं विप्रियाणि भाषितवती ? । मल्लिका - ( सलज्जम् ) 'देवलय ! [कहय] अज्जउत्तम्स कारणं । देवलकः - कुमार ! इयं भर्तृदारिका पञ्चशैलद्वीपोपवने दुरात्मना वणिक्कीटेन केनापि मन्त्र-तन्त्रविधिना व्यामोहिता। कपिञ्जलः - ततस्ततः ?। देवलकः - ततः प्रभृति मातरमवजानाति, वरयितारमसूयति, सखाजनमवगणयति, प्रसाधनमहस्तयति, परिजनमभिक्रुध्यति । :- चित्राङ्गदः - ततस्ततः । देवलकः - ह्यस्नने दिने च भगवत्या गन्धमूषिकया केनापि कर्मणा व्यामोहप्रत्यूहमपनीय स्वास्थ्यमानीता सती मातरि वरयितरि सखीजने प्रसाधने परिजने च निर्व्याज स्निह्यति । चित्राङ्गदः - ( सहर्षम् ) कपिजल ! केन कर्मणा भगवत्या वयमानृण्यं गमिष्यामः ?। मल्लिका - अज्जउत्त ! धन्ना खु दाणि अहयं भयवईए पसाएण । सहजग्गिराण सहसोविराण सहहरिस-सोयवंताण । नयणाण व धन्नाणं आजम्ममकीत्तिमं पिम्म ॥६॥ चित्राङ्गदः - प्रिये प्रियंवदे ! १ देवलक ! [कथत] आर्यपुत्रस्य कारणम् । २ आर्यपुत्र ! धन्या खलु इदानीं अहं भगवत्याः प्रसादेन । सहजागृतॄणां सहस्वपितृणां सहहर्ष-शोकवताम् । नयनानामिव धन्यानां आजन्म अकृत्रिमं प्रेम ॥३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy