SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ॥ षष्ठोऽङ्कः ॥ (ततः प्रविशति माकन्दः ।) माकन्दः - ( सविषादम् ) हा महासत्त्व ! हा प्रतिपन्नवत्सल ! हा कृतज्ञचूडामणे मकरन्द ! क्वासि ? देहि मे प्रतिवचनम् । (पुनर्विमृश्य ) न खलु दुरास्मनां स्त्रीणां कृत्यमकृत्यं वा किमप्यस्ति । अपरथा निरागसो मकरन्दस्य विप्रियमाचरन्त्या भगवत्याः को विचारः ! का वा महीयसी प्रयोजनसिद्धिः ? । यदि चन्द्रलेखा केनापि दुराग्रहेणाऽऽन्मनः प्रतिपन्थितामुदहति मकरन्दे ततः किमायातं गन्धमूषिकायाः ? | सतां दुनोति चेतांसि मार्ग स्वार्थेऽपि लङ्घयन् । लङ्घयत्यपरस्यार्थे यः पुनस्तस्य किं ब्रुवे ? ॥१॥ अथवा किमनया प्रभुकृत्यमीमांसया ?। निवेदयामि वैश्रवणप्रसाधितां प्रयोजनसिद्धिं भगवत्यै । (परिक्रामति । पुरोऽवलोक्य ) कथमितोऽभ्युपैति तामरसः?। ( ततः प्रविशति तामरसः ) तामरसः - एताः कुरङ्गकदृशः प्रमदस्य बीज माद्यं यथा यदि तथा स्थिरचेतसः स्युः । तस्मै पुराणपरिकल्पितगौरवाय को नाम निर्वृतिसुखाय तदा यतेत ? ॥२॥ (पुनः सविषादम् ) अहो ! पारिप्लवता स्त्रीणाम् , अहो ! क्षणिकता प्रेम्णाम्, अहो ! भगुरता प्रतिज्ञानाम् । यदिदानीं तानि तादृशानि मकरन्दनिमित्तं पानाऽशनत्याजनानि, तानि तादृशानि चित्राङ्गदं प्रतिकूलाचरणानि, तानि च चन्द्रलेखां प्रति मर्मो बट्टनागर्भाणि विप्रियभाषितानि, सर्वथा विस्मृत्य मल्लिका पुनजर्जातजन्मेव चिरप्ररूढप्रौढप्रेमेव चित्राङ्गदमनुनयति । प्रोत्साहितवती च मकरन्दं व्यापादयितुं चन्द्रलेखां गन्धमूषिकां च । अथवा ददाति रागिणी प्राणानादत्ते देषिणी पुनः । रागो वा यदि वा द्वेषः कोऽपि लोकोत्तरः स्त्रियः ॥३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy