________________
महाकविश्रीरामचन्द्रविरचितं भवत्या भ्रष्टप्रतिज्ञो नरककुहरात् । ततः स्वयमेवाऽऽगत्य दर्शय वीतरागप्रतिमामेतस्मै वध्याय।
__ (प्रविश्य ) गन्धमूषिका - कुमार ! किमिदमपर्यालोचितकारित्वम् ? केयमदीर्घदर्शिता ! । ( पुनरपवार्य ) किमेतेन वराकेण व्यापादितेन ? । अहमेवैनं व्यापाद्य मल्लिकामनुरागिणीं विधाय त्वदेकशरणमाधास्ये ।
चित्राङ्गदः - महाप्रसादः । ( इत्यभिधाय सपरिकरो निष्क्रान्तः ।)
गन्धमूषिका - माकन्द ! आयतबन्धनं मकरन्दं मल्लिकां च गृहीत्वा त्वरिततरमागच्छ । ( इति निष्क्रान्ताः सर्वे । )
॥ पञ्चमोऽङ्कः ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org