SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । आपदां स्कन्धमायोज्य स्तब्धाः सर्वत्र मानिनः । . राजदण्डं हि पश्यन्तो धनं मुष्णन्ति दस्यवः ॥२६॥ चित्राङ्गदः - कोऽत्र भोः ! ? । उपनय कृपाणम् । (प्रविश्य पुरुषः कृपाणमुपनयति ।) मल्लिका - 'मागहिए ! उत्थावेहि मं । अज्जउत्तस्स मयरंदस्स पढम अप्पाणं वावाएमि । ( पुनः स्वयमुत्थाय परिकरबन्धमादाय ) अज्जउत्तस्स परलोगमग्गलग्गस्स एसा अहं पुरोवत्तिणी । मागधिका-कहेमि ए६ उवालिंग (?) गंधमसियाए । ( इति निष्क्रान्ता।) चित्राङ्गदः- ( कृपाणमुत्क्षिप्य ) अयमयमुपैषि जिवितान्तं तरुणकृपाणविलूनकण्ठपीठः । स्मर किमपि करालकालवक्त्रभृकुटिकुटीलुटितासुराशु दैवम् ॥२७॥ मकरन्दः - ( सरोमाञ्च सविनयं प्रणभ्य) मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यमहितोदयम् । स्मरामि क्लेशनाशाय वीतरागपदवयम् ॥२८॥ मल्लिका - ( चित्राङ्गदं प्रति ) महाभाय ! ममं वावाएसु अणत्थकारिणिं, पच्छा एदं । ( इति कन्धरां प्रगुणयति ) (प्रविश्य ) माकन्दः - कुमार ! भगवती गन्धमूषिका त्वामादिशति । चित्राङ्गदः - ( कृपाणं विमुच्य अञ्जलिमाधाय ) किमादिशति भगवती ? । माकन्दः - स्मरसि कामप्यात्मनः प्रतिज्ञाम् । चित्राङ्गदः ( क्षणं विमृश्य ) न कामपि स्मरामि । माकन्दः - 'व्यापाद्यः सर्वोऽपि वीतरागप्रतिमामुपदर्य व्यापादनीयः' इति स्मरसि प्रतिज्ञामात्मनः ? । चित्राङ्गदः - अहो ! मन्मथान्धस्य मे प्रमादः, यदहं ह्यस्तनदिनप्रतिज्ञामपि न स्मरामि । ( पुनः सविनयम् ) माकन्द ! ब्रूहि गन्धमूषिकां भगवतीम्-त्रातोऽहं १ मागधिके ! उत्थापय माम् । आर्यपुत्रस्य मकरन्दस्य प्रथमं आत्मानं व्यापादयामि । आर्यपुत्रस्य परलोकमार्गलग्नस्य एषा अहं पुरोवर्तिनी । २ कथयामि एतत् ...........गन्धमूषिकायै । . ३ महाभाग ! मां व्यापादय अनर्थकारिणीम्, पश्चादेतम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy