SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित मल्लिका – ( सावष्टम्भम् ) 'अज्जउत्त ! मारेदु एस तुमं, जइ तुमए मारिदेणं अहं दस्स भवामि । चित्राङ्गदः - मुग्धाऽसि दुग्धमुग्धनेत्रे ! मुग्धाऽसि । कृतान्तातिथौ कृते सत्येतस्मिन्नवश्यं मे भवती इति । तथा भवत्या अपि नायं मनुष्यकीटः । ततः aiseमनात्मनीनो विधिरुपक्रान्तस्त्वया ? | मल्लिका - जइ दाणि न भविस्सदि ता जम्मंतरे विभविस्सदि एस पई । ५२ कपिञ्जलः - भद्रे ! सरलहृदयाऽसि । भिन्नभिन्नवर्त्मनि सम्भविष्णवः सर्वेऽपि जन्तवस्तैस्तैः शुभैरशुभैर्वा कर्मभिः । विभिन्नरूपदेशानां जन्मान्तरेषु जन्मिनां कस्य केनाभिसम्बन्ध: ? । ततो विमुञ्च कदाग्रहम्, प्रतिगृहाण विद्याधरकुमारम्, विलोकय विमानप्रग्रीवाधिरूढा प्ररूढप्रौढसौभाग्यसम्पदां सरिदुर्णव- शिलोच्चय-द्वीपान्तराणां रामणीयकानि । ( मल्लिका सरोषं तूष्णीमास्ते । ) चित्राङ्गदः - ( सावहेलं मकरन्दं प्रति ) विहाय वितथाग्रहं विरम गर्हिताध्वनः प्रयाहि पदमात्मनः प्रथय जिविकां कामपि । विबोधय कथञ्चन स्मितसरोजनेत्रामिमां areness भवसि किं कृतान्तातिथिः ? ॥२४॥ मकरन्दः - ( सरोमाञ्चम् ) स एष मम सत्पथः पदमियं च मे मल्लिका किमन्यदियमेव मे निखिलसम्पदां जीविका । विबुद्धमनया पुनः सह मया प्रयाणं दिवि त्वरस्व निगृहाण मां परिणय स्वकान्तामिमाम् ॥ २५ ॥ चित्राङ्गदः - ( सरोषम् ) अरे मनुष्यकीट ! वाचाट ! यदेवं मां वक्रोक्तिभिः प्रसभमुपहससि, तदुपस्थितस्ते मत्युकालः । मकरन्दः - ( सावष्टम्भम् ) किमिदमयुक्तम् ? Jain Education International १ आर्यपुत्र ! मारयतु एष त्वाम्, यदि त्वया मारितेन अहं एतस्य भवामि । २ यदि इदानीं न भविष्यति तदा जन्मान्तरेऽपि भविष्यति एष मे पतिः । For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy