________________
मल्लिकामकरन्दनाटकम् ।
५०.
मकरन्द - ( सावष्टम्भम् ) कपिजल !
मल्लिकाप्रेमजालेन निबद्धावयवस्य मे ।
भुजयो रज्जुबन्धोऽयं पीडां ब्रीडां करोतु काम् ? ॥२०॥ अपि च
मन्यावहे प्रभुरयं जलधिर्विधातुं
रत्नान्यधः शिरसि कल्पयितुं तृणानि । तां रत्नतां च तृणतां च निसर्गसिद्धा
मेषां पुनः स्थगयितुं नियतं वराकः ॥२१॥ स एष ते पतिमल्लिका-मकरन्दयोर्जीवितमपहर्तुमलम्भूष्णुः, स्वभावसिद्धं हृदयसम्बन्धं पुनरपहत्तुं तपस्वी । .. मल्लिका - ( विलोक्य सास्त्रम् ) 'हा दिव्य ! किं नेदं ? । अज्जउत्तो मह कारणेणं कीदिसं अवत्थं गदो ? त्ति । मागहिए ! अन्नारिसं किं पि तुमए कहिदं ।
मागधिका - भट्टिदारिए ! दाणि अप्पा वि मे विम्हरिदो वट्टदि ।
मकरन्दः प्रिये ! मा रोदीः। कियदेतत् ? । अपरमपि त्वदर्थव्यसनं मे मङ्गलाय ।
__ ( मल्लिका तारस्वरं प्रलपति ।) चित्राङ्गदः - अरे मापसद !
जात्यन्तरस्थितवती जनकाप्रदत्ता
मन्यस्य योषितमिमामवलम्ब्य मोहात् । भाग्यार्जितं विजहतो निजजीवितव्यं
स्तोकाऽपि काऽपि न वणिज्यकला तवास्ति ॥२२॥ मकरन्दः - अरे खेचरकीट ! मन्दबुद्धे ! लोकव्यवहाराणामुपरि ल्पवसे ? । . प्राणान् कार्यान्तरेणापि गच्छतो हतकानमून् ।
प्रियार्थ त्यजतो ब्रूहि का न मेऽस्ति वणिक्कला ? ॥२३॥ १ हा देव ! किमिदम् ? । आर्यपुत्रः मम कारणेन कीदृशी अवस्थां गतः ? इति । मागधिके ! अन्यादृशं किमपि त्वया कथितम् ।
२ भर्तदारिके ! इदानीं आत्माऽपि मया विस्मृतो वर्तते ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org