________________
महाकविश्रीरामचन्द्रविरचित मल्लिका - 'जइ अंगलच्छि वणियम्मि निक्खेवेमि ता वियड्ढजणमणस्स विसाओ । अह तुमम्मि निक्खेवेमि ता मह मणस्स । किंच-सबस्स वि जणस्स अप्पा वल्लहो, न उण परो । ता तुम ज्जेव कहेसु, किं दाणिं करेमि ।
चित्राङ्गदः - किमेताभिर्वक्रोक्तिभिः ? । अवलम्बरव दीर्घदर्शिताम् । विचिन्तय विद्याधरलक्ष्मीसौभाग्यम् । अनुतिष्ठ यदभिधत्ते जनयित्री ।
(मल्लिका निःश्वस्य तूष्णीमास्ते । ) कपिञ्जलः - स्वामिनि ! प्रत्युत्तरेण प्रसीद ।
(मल्लिका सरोषमास्ते । ) चित्राङ्गदः - ( सदैन्यम् ) अयि कुवलयनेत्रे ! देहि वाचं प्रसीद
प्रणयिषु वद मुग्धे ! कोऽप्रसादापवादः ?। त्वयि सुदति ! वदन्त्यां जीवितं यौवनश्री
लेलितमथ धनं वा चारिमा वा मुदे नः ॥१८॥ मागधिका - कुमार ! 'अप्पाण लाहवं चिय विरम विसेसेसु अणुणयपराणं । बंधुअणचाडणेण य न णाम जीवंति गयपाणा ॥१९॥
कपिजलः - कुमार ! सत्यमाह मागधिका । तदिदानी विरम्यतेऽमुष्मादध्यवसायात् । परिणयतामियं वणिनम् । अनुभवतु मनुष्यदास्यम् ।
(चित्राङ्गदः कपिजलस्य कर्णे एवमेव । ) .
( कपिञ्जलो निष्क्रान्तः ।) चित्राङ्गदः - ( साक्षेपम् ) मल्लिके ! कीदृशस्ते मनोनिश्चयः ? । मल्लिका - 'मयरंदं परिणेमि, न तुमं, एस मे निच्छओ । (ततः प्रविशति करालेन गृहीतकेशपाशः सन्दानितभुजो मकरन्दः कपिञ्जलश्च ।)
१ यदि अङ्गलक्ष्मी वणिजि निक्षिपामि तदा विदग्धजनमनसः बिषादः । अथ त्वयि निक्षिपामि तदा मम मनस: । किञ्च-सर्वस्य जनस्य आत्मा वल्लभः, न पुन: पर: । तत् त्वमेव कथय, किमिदानीं करोमि ?।
२ आत्मनां लाघवमेव विरमस्व विशेषेषु अनुनयपराणाम ।
बन्धुजनचाटनेन च न नाम जीवन्ति गतप्राणाः ।।१९।। ३ मकरन्दं परिणयामि, न त्वाम, एष मे निश्चयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org