SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । यदेवं प्रतिमुहुः परिणयनसमुत्सुकोऽहमेव, न पुनरेषा योषित् । ( मागधिका विलोक्य सिंहासनमुपनयति ।) चित्राङ्गदः -( समुपविश्य मल्लिका प्रति ) मिथ्याग्रहं शिथिलय ग्रथिले ! निरुध्य ___ क्रोधं विचारपदवीषु मनो निधेहि । विद्याधराः क च नभोभवनावचूलाः ? स्मेराक्षि ! भूमिकृमयः क च ते मनुष्याः ? ॥१५॥ मल्लिका - (सरोषम् ) 'नहोभवणावचूलत्तं पक्खीणं पि सुलहं, किं दाणि तेण ? । सोहग्गं खु मिहुणनिबंधणं, तं पुण तुहं नत्थि । चित्राङ्गदः - पक्षिकल्पोऽहम् ? दुर्भगश्च ? । मल्लिका - ( सखेदम् ) कहिदं मए। किं पुणो पुणो पुच्छसि । न सक्केमि तुमए मूलमहिसेणं समं खुहा-पिवासाहिं किलंता पुणो पुणो मंतिदूं। ( कपिञ्जलः सलज्जमधोमुखो भवति ।) चित्राङ्गदः - मां मल्लिके ! कृसुमबाणमपास्य हास्य व्रीडा-विषादजनकं वणिज श्रयन्ती । प्रायेण नीचरतयो वनितास्तमेनं लोकप्रवादद्मविवादमिहाऽऽद्धासि ॥१६॥ मल्लिका - लोयपवायं निच्छियं करेमि पमाणं । तुमं पुण भंजेसि । परमहेलं मं अहिलससि । चित्राङ्गदः - ( सोपालम्भम् ) स्पृहयति पुरुहूतस्यापि यां वामनेत्रा त्रिभुवनमहनीयां तामिमामङ्गलक्ष्मीम् । वणिजि कृपणरत्ने निक्षिपन्ती मृगाक्षि ! प्रथयसि चतुराणां किं विषादं मनस्सु ? ॥१७॥ १ नभोभवनावचूलत्वं पक्षिणामपि सुलभम्, किमिदानीं तेन ? । सौभाग्यं खलु मिथुननिबन्धनम्, तत् पुन: तव (त्वयि) नास्ति । २ कथितं मया । किं पुनः पुन: पृच्छसि ? । न शक्नोमि त्वया शूलमहिषेण समं क्षुधापिपासाभ्यां क्लान्ता पुनः पुन: मन्त्रयितुम् । १ लोकप्रवादं निश्चितं करोमि प्रमाणम् । त्वं पुनः भनक्षि । परमहिलां मां अभिलषसे । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy