Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
॥ षष्ठोऽङ्कः ॥
(ततः प्रविशति माकन्दः ।) माकन्दः - ( सविषादम् ) हा महासत्त्व ! हा प्रतिपन्नवत्सल ! हा कृतज्ञचूडामणे मकरन्द ! क्वासि ? देहि मे प्रतिवचनम् । (पुनर्विमृश्य ) न खलु दुरास्मनां स्त्रीणां कृत्यमकृत्यं वा किमप्यस्ति । अपरथा निरागसो मकरन्दस्य विप्रियमाचरन्त्या भगवत्याः को विचारः ! का वा महीयसी प्रयोजनसिद्धिः ? । यदि चन्द्रलेखा केनापि दुराग्रहेणाऽऽन्मनः प्रतिपन्थितामुदहति मकरन्दे ततः किमायातं गन्धमूषिकायाः ? |
सतां दुनोति चेतांसि मार्ग स्वार्थेऽपि लङ्घयन् । लङ्घयत्यपरस्यार्थे यः पुनस्तस्य किं ब्रुवे ? ॥१॥ अथवा किमनया प्रभुकृत्यमीमांसया ?। निवेदयामि वैश्रवणप्रसाधितां प्रयोजनसिद्धिं भगवत्यै । (परिक्रामति । पुरोऽवलोक्य ) कथमितोऽभ्युपैति तामरसः?।
( ततः प्रविशति तामरसः ) तामरसः -
एताः कुरङ्गकदृशः प्रमदस्य बीज
माद्यं यथा यदि तथा स्थिरचेतसः स्युः । तस्मै पुराणपरिकल्पितगौरवाय
को नाम निर्वृतिसुखाय तदा यतेत ? ॥२॥ (पुनः सविषादम् ) अहो ! पारिप्लवता स्त्रीणाम् , अहो ! क्षणिकता प्रेम्णाम्, अहो ! भगुरता प्रतिज्ञानाम् । यदिदानीं तानि तादृशानि मकरन्दनिमित्तं पानाऽशनत्याजनानि, तानि तादृशानि चित्राङ्गदं प्रतिकूलाचरणानि, तानि च चन्द्रलेखां प्रति मर्मो बट्टनागर्भाणि विप्रियभाषितानि, सर्वथा विस्मृत्य मल्लिका पुनजर्जातजन्मेव चिरप्ररूढप्रौढप्रेमेव चित्राङ्गदमनुनयति । प्रोत्साहितवती च मकरन्दं व्यापादयितुं चन्द्रलेखां गन्धमूषिकां च । अथवा
ददाति रागिणी प्राणानादत्ते देषिणी पुनः । रागो वा यदि वा द्वेषः कोऽपि लोकोत्तरः स्त्रियः ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358