Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मल्लिकामकरन्दनाटकम् । यदेवं प्रतिमुहुः परिणयनसमुत्सुकोऽहमेव, न पुनरेषा योषित् ।
( मागधिका विलोक्य सिंहासनमुपनयति ।) चित्राङ्गदः -( समुपविश्य मल्लिका प्रति )
मिथ्याग्रहं शिथिलय ग्रथिले ! निरुध्य ___ क्रोधं विचारपदवीषु मनो निधेहि । विद्याधराः क च नभोभवनावचूलाः ?
स्मेराक्षि ! भूमिकृमयः क च ते मनुष्याः ? ॥१५॥ मल्लिका - (सरोषम् ) 'नहोभवणावचूलत्तं पक्खीणं पि सुलहं, किं दाणि तेण ? । सोहग्गं खु मिहुणनिबंधणं, तं पुण तुहं नत्थि ।
चित्राङ्गदः - पक्षिकल्पोऽहम् ? दुर्भगश्च ? ।
मल्लिका - ( सखेदम् ) कहिदं मए। किं पुणो पुणो पुच्छसि । न सक्केमि तुमए मूलमहिसेणं समं खुहा-पिवासाहिं किलंता पुणो पुणो मंतिदूं।
( कपिञ्जलः सलज्जमधोमुखो भवति ।) चित्राङ्गदः - मां मल्लिके ! कृसुमबाणमपास्य हास्य
व्रीडा-विषादजनकं वणिज श्रयन्ती । प्रायेण नीचरतयो वनितास्तमेनं
लोकप्रवादद्मविवादमिहाऽऽद्धासि ॥१६॥ मल्लिका - लोयपवायं निच्छियं करेमि पमाणं । तुमं पुण भंजेसि । परमहेलं मं अहिलससि । चित्राङ्गदः - ( सोपालम्भम् ) स्पृहयति पुरुहूतस्यापि यां वामनेत्रा
त्रिभुवनमहनीयां तामिमामङ्गलक्ष्मीम् । वणिजि कृपणरत्ने निक्षिपन्ती मृगाक्षि !
प्रथयसि चतुराणां किं विषादं मनस्सु ? ॥१७॥ १ नभोभवनावचूलत्वं पक्षिणामपि सुलभम्, किमिदानीं तेन ? । सौभाग्यं खलु मिथुननिबन्धनम्, तत् पुन: तव (त्वयि) नास्ति ।
२ कथितं मया । किं पुनः पुन: पृच्छसि ? । न शक्नोमि त्वया शूलमहिषेण समं क्षुधापिपासाभ्यां क्लान्ता पुनः पुन: मन्त्रयितुम् ।
१ लोकप्रवादं निश्चितं करोमि प्रमाणम् । त्वं पुनः भनक्षि । परमहिलां मां अभिलषसे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358