Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 316
________________ ४८ तामरसः भर्तृदार ! प्रियानुरोधाद् बध्नाति विप्रियेsपि जनो मनः । पङ्कभाजोऽपि हर्षाय वर्षाः सस्याभिलाषिणाम् ॥११॥ तो मातुरनुरोधेन वधान विप्रियेsपि चित्राङ्गदे हृदयम् । मल्लिका – 'अज्ज तामरस ! जं तुमं भणासि तंज्जेव अहं कुती - चिट्ठामि । महाकविश्रीरामचन्द्रविरचितं — तामरसः मल्लिका - अज्जउत्तस्स मयरंदस्स अणुरोहेण विप्पियत्थे वि मरियव्वे बद्धं मे हिययं । - - ( सप्रमोदम् ) किं तत् ? | Jain Education International चन्द्रलेखा - ( सदुःखमात्मगतम् ) अकृत्यं फलवद् येषां तेऽप्यश्लाघ्या महात्मनाम् । नाम तेभ्यः पुनर्येषामकृत्यमपि निष्फलम् ॥१२॥ इदं तावन्मदीयमश्लाघ्यं यत् किरातसम्बन्धेन गर्भसम्भूतिः । इदानीं पुनः स्वेच्छया दुहितु-जामातृसुखमपि नास्ति । ( प्रकाशम् ) तामरस ! विरम विरम वचनक्लेशात्, अतः परं पतिरेवास्याश्चित्राङ्गदः सर्वमाधास्यति । ( नेपथ्ये ) अत्रार्थे कः सन्देहः ? । चन्द्रलेखा - कथं प्राप्त एव कुमार : ? । तदेहि तामरस ! भगवतीं गन्धमूषिकां पश्यामि । ( इति सतामरसा निष्क्रान्ता । ) ( ततः प्रविशति चित्राङ्गदः कपिञ्जलप्रभृतिकश्च परिवारः । ) चित्राङ्गदः - (सविषादम् ) दम्पत्योः पाक्षिकात् प्रेम्णः प्रेमाभावः सुखावहः । एककर्णस्थताडङ्कादताडङ्कं मुखं वरम् ॥१३॥ तदिदानीं निष्प्रेमाणमेतां वनितामभिलषतो मनः प्रयासमात्रमेव परमार्थः । ( पुनः सकौतुकम् ) यथा पुंसां स्त्रियः स्त्रिणां पुमांसो विषयस्तथा । तथापि सत्वराः प्रायः पुमांसो न पुनः स्त्रियः ॥१४॥ १ आर्य तामरस ! यत् त्वं भणसि तदेव अहं कुर्वती तिष्ठामि । २ आर्यपुत्रस्य मकरन्दस्य अनुरोधेन विप्रियार्थेऽपि मर्त्तव्ये बद्धं मे हृदयम् । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358