Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 306
________________ महाकविश्रीरामचन्द्रविरचितं मकरन्दः - ततस्ततः । शुकः - पारपरूढप्रौढनानाजातीयवानेयवृक्षदिदृक्षया यानपात्र[स्थ]या मनोरमया समं भूमौ समुत्तीर्णवान् । मकरन्दः - ततस्ततः । शुकः - विलोकयंश्च कोकिलाकुलकुलायसमृद्धकक्षान् अनेकतिलक-चम्पक -पुन्नागनागपाग्रहरान उपत्यकावृक्षान्, एकामनेकानयप्रसाधनप्रभामाग्भारदुरवलोकावयवविवेकामधंजरती वनितामपश्यत । मकरन्दः - अहो ! कौतु[क]कारी कथासन्निवेशः। शुकः - उदीरितः स्वगतश्च परमादरं दर्शयन्त्या तया स्वभवनमिदमानीतः । अनुकूलितश्च तैस्तैश्चाटुकारैः तैौदिव्यफलरसाहारी :तैस्तैरनेकदई नीयदिव्यप्रदेशोपदर्शनेः तैस्तैः खेचरजनोचितप्रसाधनविधानः कियन्त्यपि दिनानि । मकरन्दः - ( सत्वरम् ) ततः किम् ? । शुकः - एकदा च धवलयति सौधांसवे महसि दिक्चक्रवालं चन्द्रशालायां पर्यङ्कनिषण्णस्तया वृषस्यन्त्या सम्भोगार्थमत्यर्थमभ्यर्थितः । मकरन्दः - (सजुगुप्सम् ) अनुचितमतः परं श्रोतुम् । कथाऽपि पापीयसां पुंसां महते कलुषाय प्रभवति, तथापि व्याहर । अनिर्वहणे हि प्रारम्भो नीचतां प्रकाशयति । शुकः - स च वीतरागवचनश्रवणपविनितात्मा परदारपरिहारव्रतमनुरुन्धानो रिम्सुमपि तां दूरमपकर्णितवान् । मकरन्दः - ( सानन्दम् ) स्तुत्यचरितोऽसि वैश्रवण !, एष ते प्रणामार्थ बद्धोऽजलिः। शुकः - अनन्तरमसौ तदात्वपल्लवितकोपाटोपपाटलाक्षी –'अरे पाप ! यावज्जीवमनुभव पजरचारकाधिवालवैशसम्, परिपालय परदारपरिहारव्रतम्' -इति व्याहरन्ती केनापि चूर्णप्रयोगेण तं महात्मानं शुकं कृतवती । स चाहं देवहतकः । तां पुनर्मनोरमां प्रथमदिवस एव पुरुषाकारधारिण्याः स्वदुहितुः परिचारिकां विहितवती। मकरन्दः - सा पुनरिदानी खेचरी वव वर्तते ? । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358