Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मल्लिकामकरन्दनाटकम् ।
३९ शुकः - इदानीं सा वैभलनगरतः समागताया गन्धमूषिकाभिधानायाः परिव्राजिकाया आश्रमे सपरिवारा तिष्ठति ।
मकरन्दः - यदि वैभलनगरतः समायाता परिव्राजिका तहि सा तवापि परिचिता सम्भाव्यते।
शुकः - ( निःश्वस्य ) पजरस्थस्य मे परिचयः किं कुरुते ? । मकरन्दः -साम्प्रतं पानाशनचिन्तां कस्ते करोति ?। शुकः - प्रत्यासन्नशिबिरनिवासी खेचरीप्रार्थितश्चित्राङ्गदः कुमारः । मकरन्दः - महाभाग !
सम्पत्तिरस्य रोहन्ती भाग्यानां मुखमीक्षते ।
स्वशक्तितोलनं नाम माहात्म्यं तु महात्मनाम् ॥१५॥ ततो यद्यस्य पापीयसः पर्वणः किमपि प्रतिविधानमस्ति तदा प्रकाशय, येन स्वशक्तिमाविष्करोमि। शुकः - ( सनिर्वेदम् )
अर्थित्वमेकं नीचत्वमर्थित्वमनीचता ।
दोषा गुणाश्च ये त्वन्ये ते कुटुम्बकमेतयोः ॥१६॥ अपि च -
तृणेष्वपि गवादीनां वेधसा वीक्ष्य गौरवम् । . एकान्तलघुपक्षार्थमर्थिनो निर्मिताः पुनः ॥१७॥ तदहमत्रार्थे न किमपि त्वया वक्तव्यः । पक्षिभाववैशसात् परप्रार्थनावैशसं पापीयस्तरं मे प्रतिभाति ।। मकरन्दः - महाभाग ! परमार्थमभिहितवानसि ।
अर्थी पिताऽपि सन्तापमाधत्ते किं पुनः परः ? ।
पीयूषसागरस्थापि पूरः प्लावयति प्रजाः ॥१८॥ किन्तु -
अर्थित्वेऽपि वयं तत्र जानीमो गौरवं परम् ।
यत्रार्थलाभः कोऽपि स्यात् परकार्यक्रियाक्षमः ॥१९॥ तदलं विषादेन ।
शुकः - अस्ति प्रतिविधानम् , परमशक्यानुष्ठानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358