Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 308
________________ ४० मकरन्दः - किं तत् ? । शुकः - भूमिजातस्य करस्पर्श: । मकरन्दः कथं तर्हि अशक्यानुष्ठानम् ? | - महाकविश्रीरामचन्द्रविरचितं शुकः इह खेचरगिरौ भूमिजन्मनोऽसम्भवात् । मकरन्दः यद्यप्यसम्भाव्यस्तत् कथमहमत्र ? | शुकः - आर्य ! किं नामालीकाश्वासनाभिः प्रतारयसि ? विद्याधरवेषदर्शनादेव ज्ञातम् - न भवान् भूमिजन्मा । (मकरन्दः विहस्य शुकं पञ्जरादाकर्षति । ) - Jain Education International शुकः - ( आत्मानमवलोक्य ) कथं वैश्रवणोऽस्मि ? | ( पुनः सविनयम् ) आर्य ! निष्कारणवत्सल ! त्वयाऽहमेवमुपकृतः कं प्रत्युपकारमादधामि ? | मकरन्दः - अयमेव साम्प्रतं प्रत्युपकारः, व्रज त्वं सिद्धायतनम् | अन्यथा यदि चन्द्रलेखा समायास्यति तदानीं कमप्यपायमाधास्यति । मनोरमादर्शनमपि तत्र स्थितस्य सम्भाव्यते । अहमपि सौधमध्यमवलोक्य समागत एव । ( शुको निष्क्रान्तः । ) ( नेपथ्ये ) कपिञ्जल ! शुकार्थं गृहीतानि दाडिमप्रभृतीनि फलानि त्वया ? | मकरन्दः ( साशङ्कम् ) कथं सा चन्द्रलेखाऽभ्युपैति ? | ( पुनः सभयम् ) भूयो भूयो वामाक्षिस्फुरणमपायं महान्तं पिशुनयति । — (नेपथ्ये ) कपिञ्जल ! उपनीतवस्त्राभरणा प्रिया किमस्मासु पतिपद्यते ? । कपिञ्जलः - कुमार ! तत् प्रतिपद्यते यद् वैरिषु । मकरन्दः - यथाऽयं परुषस्वरस्तथा निश्चितममुना चित्राङ्गदेन भाव्यम् । ( नेपथ्ये ) तत् तावदास्तां कामिन्यो न यत् साध्या धनैर्विना । धनैरपि न यत् साध्या तत्र किञ्चिद विचिन्त्यताम् ||२०|| मकरन्दः - व्रजामि निरपायं सद्धायतनम् ( इति परिक्रामति । ) ( ततः प्रविशति कपिञ्जलद सहस्तावलम्बश्चित्राङ्गदः । ) चित्राङ्गदः - कपिञ्जल ! उपनय शुकाय फलानि । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358