________________
४०
मकरन्दः - किं तत् ? । शुकः - भूमिजातस्य करस्पर्श: । मकरन्दः कथं तर्हि अशक्यानुष्ठानम् ? |
-
महाकविश्रीरामचन्द्रविरचितं
शुकः
इह खेचरगिरौ भूमिजन्मनोऽसम्भवात् । मकरन्दः यद्यप्यसम्भाव्यस्तत् कथमहमत्र ? |
शुकः - आर्य ! किं नामालीकाश्वासनाभिः प्रतारयसि ? विद्याधरवेषदर्शनादेव ज्ञातम् - न भवान् भूमिजन्मा ।
(मकरन्दः विहस्य शुकं पञ्जरादाकर्षति । )
-
Jain Education International
शुकः - ( आत्मानमवलोक्य ) कथं वैश्रवणोऽस्मि ? | ( पुनः सविनयम् ) आर्य ! निष्कारणवत्सल ! त्वयाऽहमेवमुपकृतः कं प्रत्युपकारमादधामि ? |
मकरन्दः - अयमेव साम्प्रतं प्रत्युपकारः, व्रज त्वं सिद्धायतनम् | अन्यथा यदि चन्द्रलेखा समायास्यति तदानीं कमप्यपायमाधास्यति । मनोरमादर्शनमपि तत्र स्थितस्य सम्भाव्यते । अहमपि सौधमध्यमवलोक्य समागत एव । ( शुको निष्क्रान्तः । ) ( नेपथ्ये )
कपिञ्जल ! शुकार्थं गृहीतानि दाडिमप्रभृतीनि फलानि त्वया ? | मकरन्दः ( साशङ्कम् ) कथं सा चन्द्रलेखाऽभ्युपैति ? | ( पुनः सभयम् ) भूयो भूयो वामाक्षिस्फुरणमपायं महान्तं पिशुनयति ।
—
(नेपथ्ये )
कपिञ्जल ! उपनीतवस्त्राभरणा प्रिया किमस्मासु पतिपद्यते ? । कपिञ्जलः - कुमार ! तत् प्रतिपद्यते यद् वैरिषु । मकरन्दः - यथाऽयं परुषस्वरस्तथा निश्चितममुना चित्राङ्गदेन भाव्यम् । ( नेपथ्ये )
तत् तावदास्तां कामिन्यो न यत् साध्या धनैर्विना । धनैरपि न यत् साध्या तत्र किञ्चिद विचिन्त्यताम् ||२०|| मकरन्दः - व्रजामि निरपायं सद्धायतनम् ( इति परिक्रामति । ) ( ततः प्रविशति कपिञ्जलद सहस्तावलम्बश्चित्राङ्गदः । ) चित्राङ्गदः - कपिञ्जल ! उपनय शुकाय फलानि ।
For Personal & Private Use Only
www.jainelibrary.org