SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । कपिञ्जलः - कुमार ! कस्मै उपनयामि ? नाऽऽस्ते पजरे शुकः । चित्राङ्गदः - ( सभयम् ) किमिदानीमुत्तरं विधेयमस्माभिश्चन्द्रलेखायाः। (पुनः सम्मुखीनं मकरन्दमवलोक्य ) कपिजल ! कोऽयम् ? । कपिञ्जलः - ( वेषमवलोक्य ) कुमार ! सोऽयं युष्मत्प्रेमप्रत्यूहः । चित्राङ्गदः - ( सरोषम् ) अरे ! कस्त्वम् ? । मकरन्दः - (स्वगतम् ) अहं वणिग्मात्रमेकाकी च । अयं विद्याधरः सपरिच्छदश्च । स्त्रीनिमित्तं च वैरम् । तदवश्यमेव उपस्थितो मे मृत्युकालः। तदिदानी किं दैन्यजल्पितैः ? । अपि च मानिनो मानिनस्तावद यावद यान्ति न दीनताम् । संसहेत न बन्धं यः केशरी केशरी हि सः ॥२१॥ (प्रकाशम् ) त्वमपि हि कः ?। चित्राङ्गदः - ( सक्रोधम् ) अरे वाचाटकिराट ! मां पृच्छसि ? अहं विद्याधरकुमारश्चित्राङ्गदः। मकरन्दः - (साक्षेपम् ) अहं तर्हि विद्याधरचक्रवर्तिकुमारो मकरन्दः । कपिजलः - अरे वणिक्कीट ! शौण्डीर्यमेदुरांसस्थलेन क्षत्रवंशावचूलेन कुमारेण सह स्पर्धसे ?। मकरन्दः - अरे. पदातिसारमेय ! अनभिज्ञोऽसि परमार्थवम॑नाम् । वर्णानपेक्षं शौण्डीय सत्त्वमात्रे निषीदति । सत्त्वं तु वणिजेऽपि स्यान्न स्यात् क्षत्रेऽपि न (? च) क्वचित् ॥२२॥ चित्राङ्गदः - ( सरोषम् ) अरे मुखर ! मत्प्रियामभिलपतस्ते दैवं पतिकूलम् । मकरन्दः - ( सरोषम् ) तवापि मत्प्रियामभिलपतो दैवं प्रतिकूलम् । चित्राङ्गदः - ( नेपथ्यमुपलक्ष्य ) अरे ! मत्प्रियाया नेपथ्यं परिदधतस्ते प्रत्यासीदति मृत्युसमयः। मकरन्दः - ( सोपहासम् ) अमुनैव नेपथ्यलाभेन निश्चितं मया सा प्रिया तत्रभवतो भवतः, न पुनर्मम । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy