________________
કર
महाकविश्रीरामचन्द्रविरचित चित्राङ्गदः - ( स्वगतम् ) उपहसति मामयं दुरात्मा वणिकीटः । तदिदानीमेव करोमि कृतान्तातिथिम् । अथवा नयामि मल्लिकायाः समीपम् । पश्यन्त्याश्च तस्यास्तरवारिणा पातयाम्यस्य मूर्धानम्, येन सा प्रतिभयेन मांप्रतिपद्यते। यदि वा सामप्रयोगसाध्ये [न] दण्डप्रयोगः । ततः प्रथममुपशान्तयाम्येनम् । (प्रकाशम् ) महाभाग !
शब्दाः कथञ्चित् सर्वेऽपि बाह्यवाच्यावगाहिनः । व्यसने धैर्यमित्येष शब्दस्त्वात्मैकगोचरः ॥२३॥ ततो विस्मिता व तवामुना मनःसौष्ठवेन । तदतः परं मित्रमसि नः। पन्मित्रोचितं तदस्मासु विध्याः। मकरन्दः - (स्वगतम् ) कर्पूरप्रभवस्यापि प्रदीपस्यासिता मषी ।
विद्विषो विनतस्यापि प्रियमायाति विप्रियम् ॥२४॥ ( प्रकाशम् ) महापुरुष ! वयमपि विस्मितास्तवामुना मनःसौष्ठवेन । तदतः परं मित्रमसि नः । यन्मित्रोचितं तदस्मास्वपि विदध्याः।
चित्राङ्गदः - अरे मनुष्यापसद ! निर्व्याजमपि सव्याज व्याहरसि ?, अनुभवेदानी कुटिलतायाः फलम् । एषा समाप्यते ते जीवितकथा । कोऽत्र भोः ? ।
(प्रविश्य कृपाणपाणिः) पुरुषः - एषोऽस्मि ।
चित्राङ्गदः - अरे कराल ! के गृहीत्वा दुरात्मानमेनं शिबिरमुपनय । वयमपि गन्धमूषिकाया आश्रमे व्रजामः ।
( इति निष्क्रान्ताः सर्वे । )
॥ चतुर्थोऽङ्कः ॥ ४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org