Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 311
________________ ॥ पञ्चमोऽङ्कः ॥ ( ततः प्रविशति मनोरमा । ) मनोरमा - ( सप्रमोदम् ) 'जीवदु चिरं मयरंदो, जेण एसा मे पइभिक्खा दिन्ना । ता दाणि मए मयरंदस्स वि पाणेहिं पिपियं कायव्यं । तदो तहा कह पि अब गंधमूसियं पसादइस्सं जधा सा मयरंदस्स मणोरहं संपाडेदि । भणिदं च अज्जउत्तेण वेसण - गच्छतुमं, जधा विन्नवेसु अंबार गंधमूसियार पणामं कहणपुव्वं तुह वृत्तं । तं दाणि तहिं गच्छामि । ( इति पुरोऽवलोक्य) कथं देवलओ एदि ? | ( ततः प्रविशति देवलकः । ) देवलकः - ( सविषादम् ) असन्तृप्ता विपद्यन्ते विभवस्य विपश्चितः । रतस्य राजकामिन्यः स्वस्थस्य खलसेवकाः ॥ १ ॥ वृथा मह्यं देवी चन्द्रलेखा कुप्यति । किमहं महात्मानमेनं निरागसं मकरन्दं व्यापादयितुं शक्नोमि ? भर्तृदारिकां मल्लिकां कशाभिरभिताडयितुं प्रभवामि ?, यदि च देवी चन्द्रलेखा प्रातिकूल्यमनयोरुद्वहति तदानीमनार्यं कर्म स्वयमेव कथं नाचरति ? | Jain Education International ( पुनः सकौतुकम् ) न रवेः कुमुदानि सुधाकरे [च] कमलानि दधति सङ्कोचम् । दग्धानां सरसीनां यथा तथा व्यसनमाकालम् ॥२॥ यदि मल्लिका चन्द्रलेखामनुकूलयति तदा मकरन्देन वियुज्यते । अथ मकरन्दमनुनयति तदा चन्द्रलेखया कदर्थ्यते । तदवश्यमनया मर्त्तव्यम् । मनोरमा - 'अज्ज देवलय ! केण मरियव्वं ? | — १ जीवतु चिरं मकरन्दः, येन एषा मे पतिभिक्षा दत्ता । तद् इदानीं मया मकरन्दस्यापि प्राणैरपि प्रियं कर्त्तव्यम् । ततः तथा कथमपि अम्बां गन्धमृषिकां प्रसादयिष्यामि यथा सा मकरन्दस्य मनोरथं सम्पादयति । भणितं च आर्यपुत्रेण वैश्रमणेन गच्छ त्वम्, यथा विज्ञपय अम्बायै गन्धमूषिकायै प्रणामकथनपूर्वं तुभ्य उक्तम् । तद् इदानीं तत्र गच्छामि । कथं देवलक ऐति ? । २ आर्य ! देवलक ! केन मर्त्तव्यम् ? । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358