Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 312
________________ ४४ महाकविश्रीरामचन्द्रविरचितं देवलकः - भर्तृदारिकया मल्लिकया । मनोरमा - किं ति ? | देवलकः - पानाऽशनत्यागात् । मनोरमा - ( सभयम् ) 'मल्लिया ए ईदिसो अणत्थो वहृदि ? | देवलकः - अनर्थ इति किमुच्यते ?, चन्द्रलेखायां विरुद्धायां यज्जीवति मल्लिका तत् कौतुकम् । Jain Education International वडवामुखे महौजसि विरामविमुखं ज्वलत्युदरधानि । क्षारत्वं यदुदधेः शुष्यति यनैष तच्चित्रम् ॥३॥ तद् व्रजाम्यहं देव्यादेशेन चित्राङ्गदमाकारयितुम् । मनोरमा - 'अज्ज देवलय ! कहं उण एसा मल्लिया पंचबाणसमाणरूवं पि विज्जाहरं वरं न पडिवज्जदि ? | देवलकः – ( साक्षेपम् ) मनोरमे ! बहिर्मुखाऽसि प्रेमकथानाम् । यद् यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः || ४ || अत्रार्थे चित्राङ्गदः पुनरुपालभ्यः, यः प्रेमविमुखां स्त्रियमभिलषन्नात्मानं क्लेशयति । मनोरमा - साहु पिदं तुमए, जम्मंतरलक्खपरूढदुक्खरुक्खस्स तिन्नि साहाओ । सेवा खलेसु विवो परेसु पिम्मं अपिम्मे ॥ ५ ॥ १ किमिति । २ मल्लिकाया ईदृशः अनर्थो वर्तते ? । ३ आर्य देवलक ! कथं पुनः एषा मल्लिका पञ्चबाणसमानरूपमपि विद्याधरं वरं न प्रति पद्यते ? | ४ साधु जल्पितं त्वया, जन्मान्तरलक्ष प्ररूढदुःखवृक्षस्य तिस्न: शाखा: । सेवा खलेषु विभवः परेषु प्रेम अप्रेमसु ॥५॥ अपि च यत् किल उल्लसति दृढं अनुरागपराङ्मुखेषु अनुरागः । तदेव विषं विषं पुनर्मथनभवं तस्य प्रतिबिम्बम् ॥६॥ तदिदानीं कथय - कुत्र मल्लिका वर्तते १ । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358